जयतु जयतु संस्कृतम्
जयतु जयतु संस्कृतं
नयतु नः सुसंस्कृतिम् ॥
अखिलागममूलमिदं
निखिलागमवाक्पदम् ।
सुखदायकमस्माकं
सखितासम्पादकम् ॥
रामायणभारतयुतं
पुराणोपपुराणात्मं
नारायणभक्तिपरं
सदाचारास्पदं सदा ॥
असमानकवित्वभासैः
भासकालिदासकृतैः
रसवत्कवितागुच्छैः
असद्वृत्तिसमुच्छिदम् ॥
- दाॅ. प्रभाकरशर्मा
Encoded and proofread by Shubha shubhazero at gmail.com