जयिनी भव सुरवाणि
जयिनी भव सुरवाणि
स्तवनं तव करवाणि
शरणं त्वा करवाणि
जगति भव त्वं शुभवाणी ॥ १॥
श्रुतिसुखनिनदे शिवदे
कविवर-विलसित-वरदे
सर्वाङ्गे च्युतिविधुरे
नवरसकलिते मधुरे
कामदुघा, त्वं ज्ञानसुधा ॥ २॥
धरसि सनातनधर्मम्
जनयसि भाषाजालम्
वर्षसि गीतामृतधाराम्
वदसि सदा श्रुतिमखिलाम्
आह्लादयुता, त्वं वृद्धिमिता ॥ ३॥
- श्री गणपय्यहोळ्ळः
Encoded and proofread by Shubha shubhazero at gmail.com