ज्योतिरुदेति ज्योतिरुदेति
ज्योतिरुदेति ज्योतिरुदेति नवयुवज्योतिरुदेति
जगदिदमखिलं पुरतो नेतुं
अभिनवलोकहितैषि ॥
भारतजननीहृदयमुद्गतसत्यसनातनज्योतिः (हृदयं उद्गत अथवा हृदयसमुद्गत)
भासुरचरितपुनारचनार्थं
समुदितमङ्गलज्योतिः ॥
जागरयितुमिह सुप्तसमाजं लोकयितुं नवमार्गं
पूर्वजवाञ्छामखिलामचिरात्
साधयितुं समुपैति ॥
मुनिजनदर्शितपथमाश्रयदिदमेति समुज्ज्वलज्योतिः
प्रखरं ध्येयं निजहृदि विदधत्
अनुपमवृद्धिमुपैति ॥
Encoded and proofread by Shubha shubhazero at gmail.com