कामाख्यदोषविवरणम्
दोषेषु प्रथमः कामो विविच्य विनिरूप्यते ।
यस्मिहत्पद्यते तस्य नाशकः सर्वथा मतः ॥ १॥
विषयावेशहेतुत्वाद्विक्षेपोत्पत्तिकारणम् ।
रजोगुणसमुत्पन्नो रजःप्रक्षेपको मुखे ॥ २॥
ब्रह्मावेशविरोधी च सद्बुद्धेर्बाधको मतः ।
सत्कर्मनाशकः सर्वप्राकृतसक्तिसाधकः ॥ ३॥
चित्ताशुद्धिनिदानत्वाच्चिदुत्पत्तौ च बाधकः ।
भक्तिमार्गमहाद्वेष्टा वैराग्याभावसाधनात् ॥ ४॥
सर्वत्रापरितोषश्चानेन लोभसमुद्भवात् ।
यथाकथञ्चित् साम्मुख्येन्द्रियवैमुख्यकारकः ॥ ५॥
कामलोभौ हरिप्राप्तिप्रतिबन्धकपर्वतौ ।
तावुल्लङ्घ्य न शक्रोति गन्तुं कृष्णान्तिकं जनः ॥ ६॥
संसारमोहहेतुत्वान्मनोदूषणसाधनम् ।
अतः सेवाविरोधी च यतः सा मानसी मता ॥ ७॥
निरोधस्य महाञ्छत्रुरन्यस्फूर्तिकरो यतः ।
गुणगानसपत्नोऽपि न रोचन्ते गुणा यतः ॥ ८॥
वैराग्यसाधकाः सर्वे कामिनस्ते कथं प्रियाः ।
अत एव हि दृश्यन्ते गुणश्रवणवैरिणः ॥ ९॥
क्रोधः स्वकार्यकरणाल्लोभः प्राप्त्यापि शाम्यति ।
घृतहोमे वह्निरिव कामो भोगेन वर्धते ॥ १०॥
कामेन नाशितमतिः प्रतिषिद्धे प्रवर्तते ।
अगम्यागमने चौर्ये तथैवाभक्ष्यभक्षणे ॥ ११॥
यत उत्पद्यते क्रोधो महदद्रोहसमुद्भवः ।
लोभोऽपि जायते तस्मात्स चार्थविषये भवेत् ॥ १२॥
सोऽर्थः पञ्चदशानर्थमूलं तत्र प्रवर्तते ।
कामेनैव हि कार्पण्यं कामिनीषु सतां मतम् ॥ १३॥
प्रार्थयन्ति यतस्तुच्छां प्रवेश्य वदने करम् ।
प्रियव्रतसुतो राजा भ्रष्टः कामेन सत्फलात् ॥ १४॥
आग्नीधो विषयावेशादूर्वशीलोकमापितः ।
कामेन काश्यपो दैत्योत्पादने हेतुतां गताः ॥ १५॥
निवृत्तसन्ध्यानियमः पत्नीप्रार्थनमोहितः ।
कामेन च शिवः कृष्णयुवतीरूपवञ्चितः ॥ १६॥
कामेन नारदः षष्ठिपुत्रानजनयत्स्वतः ।
गर्वाभावाय हरिणा दत्तः कामो महाशनः ॥ १७॥
कामेन भरतस्यापि हरिणत्त्वं भवान्तरे ।
पुरञ्जनोऽपि कमने स्त्रीयोनिमुपलब्धवान् ॥ १८॥
कामेन वेदगर्भोऽपि स्वसुतायां तथाऽकरोत् ।
तेनैव रावणो बुद्धिं रमायामन्यथाऽकरोत् ॥ १९॥
एवं हि बहवो नष्टाः कामेनैव हि साधवः ।
भक्तिमार्गे विरोधस्तु तत्र कामकृतो महान् ॥ २०॥
कामितः फलवाञ्च्छातः शरणं नैव सिद्ध्यति ।
सापेक्षस्य तु सर्वत्र दुर्लभं हि समर्पणम् ॥ २१॥
तदभावे तदीयत्वं सर्वथैव हि दुर्लभम् ।
साधारण्येन बुद्धिः स्यात्तेन लीलास्थितेष्वपि ॥ २२॥
कामलेन यथा पीतप्रतीतिरखिले भवेत् ।
पञ्चाध्याय्यामतः प्रोक्तं हृद्रोगत्त्वं शुकैरपि ॥ २३॥
दोषबुद्धिः कामिनस्तु भवेल्लीलाकृतो हरेः ।
निबन्धे श्रीमदाचार्यैरत इन्द्रियनिग्रहे ॥ २४॥
अत्यागः सर्वथा प्रोक्तो भगवद्भक्तिसाधकः ।
कौतुकार्थमपि त्यागो धर्मार्थमपि वर्जितः ॥ २५॥
स्वयमिन्द्रियकार्याणीत्युक्त्या धैर्यविभञ्जनः ।
विवेकस्य विरोध्येव तदस्फूर्तिकरो यतः ॥ २६॥
आश्रयस्तु कथं सिध्येन्मनोविक्षेपसम्भवात् ।
भक्तिमार्गोऽपि मूलत्वात्त्यागस्य न हि सिद्ध्यति ॥ २७॥
बाह्यपक्षे कृष्णयोगः सर्वथा त्वान्तरे मतः ।
परं तूभयथा त्यागो मूलमन्त्रं न संशयः ॥ २८॥
कामे सति कथं त्यागः सापेक्षस्य प्रसिद्ध्यति ।
तस्माद्विचार्य तद्रूपं दुरतिक्रमणं स्वतः ॥ २९॥
शरणीकरणीयं श्रीनिजाचार्यपदाम्बुजम् ।
साधनानामभावेऽपि स्वबलोऽखिलसाधनम् ॥ ३०॥
तत एव त निस्तारो दोषपोषयुतात्मनाम् ।
नान्या गतिर्गोकुलेशभजनानन्दकाङ्क्षिणाम् ॥ ३१॥
इति श्रीहरिदासविरचितं कामाख्यदोषविवरणं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com