काननश्रीः
काननं नीलवर्णाभं मेघकान्तिसमं लसत्
ईशेन जगति स्रष्टमपूर्वं दृश्यविस्मयम् ।
अश्वत्थाम्रपुन्नागैः पनसैश्चार्णवृक्षकैः
निम्ब बर्बर कर्पूर शाल्मलीप्रियकैर्भृतम् ॥
मञ्जरीभिश्च पूष्पैश्च काननं गन्धपूरितम्
मधुना कन्दजालैश्च माधुर्यं द्विगुणीकृतम् ।
अफलैः सफलैर्वृक्षैः समृद्धैश्च सुवर्धितैः
हरति हृदयं सर्वं काननश्रीः सदा जवात् ॥
वल्मीकैः सर्पवासद्बिः तटाकैः पल्लवैः हृदैः
वातैश्च चन्दनाविष्टैः काननं नेत्रमोहनम् ।
चातकश्येनगृध्रैश्च काककोकिलसारसैः
चक्रवाकैश्च सम्पन्नं काननं कस्य नप्रियम् ॥
कविता रचना - विजयन् वि. पट्टाम्बी