क्षेमं कुरु गोपाल
क्षेमं कुरु गोपाल ।
(क्षेमं सदैव कुरु देवशिखामणे त्वां
याचे तवदङ्घ्रिकमले प्रणतीर्विधाय ।
नान्यं वृणे पतिमशेषगुरोः अनन्तात्
त्वत्तस्समस्त-गुणधामभिः आत्मतुल्यात् ॥)
क्षेमं कुरु गोपाल सन्ततं मम क्षेमं कुरु गोपाल ।
कामं तव पाद-कमल-भ्रमरी भवतु
श्रीमन् मम मानसं मधुसूदन (क्षेमं कुरु गोपाल) ॥
अक्षीणकरुणानिधे आनन्दघन प्रक्षीण-दोषवारिधे
शिक्षित-असुरगण रक्षितनिजजन
कुक्षिस्थित-अनेक-कोटि-लोक-पालन (क्षेमं कुरु गोपाल) ॥
प्रह्लाद-भय-विदार परमयोगि-पावन-भुवनाधार
मोहरहित-बोध-मौनि-मानस-हंस
साहस-जित-वैरि-सङ्घात महोदार (क्षेमं कुरु गोपाल) ॥
अजित-विजय-गोपाल अनन्तलील रञ्जित-पदकमल
विजय-द्वारकापुरी-विमल-कमला-लोल
निजनारायणतीर्थ निर्मलानन्द-बाल (क्षेमं कुरु गोपाल) ॥
गोपालकृष्ण (३)गोपाल
-- नारायणतीर्थरचिता तरङ्गिणि
The first shloka is added as an introduction.
Encoded and proofread by Usha Jayaraman