कमलाकरसर्वतथागतस्तोत्रम्
अथ खलु कमलवने सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नानां बुद्धानां
भगवतोऽत्यस्तावीत्
ये जिनपूर्वकाये भवन्ति ये च ध्रियन्ति दशदिशि लोके ।
तान् हि जिनांश्च करोमि प्रणामं तं जिनसङ्घमहं प्रभिजष्ये ॥ १॥
शान्तप्रशान्तविशुद्धमुनीन्द्रं स्वर्णसुवर्णप्रभासितगात्रम् ।
सर्वसुरासुरसुस्वरघोषं ब्रह्मरुतस्वरगर्जितघोषम् ॥ २॥
षट्पदभौंरमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् ।
शङ्खतुषारसुपाण्डरदन्तं हेमविराजितभाषितनाभम् ॥ ३॥
नीलविशालविशुद्धसुनेत्रं नीलमिवोत्पलफुल्लितक्षेत्रम् ।
पद्मसुवर्णविभान्तसुजिह्वं पद्मप्रभाषितपद्मसुखाभम् ॥ ४॥
शङ्खमृणालनिभं सुखतार्णं दक्षिणवर्तितवेडुलितर्णम् ।
सूक्ष्मनिशाकरक्षीणशशीव मात्रसुमन्त्रसरोजसुनाभम् ॥ ५॥
काञ्चनकोटिसुवर्णसुनासमुन्नतमृदुतरपादपपत्रम् ।
अग्रधराग्रविशिष्टनासाग्रं मृदुकरसर्वजिनं सततं तम् ॥ ६॥
एकसमेकतरोममुखाग्रं बालसुरोमप्रदक्षिणवर्तम् ।
नीलनिभोज्ज्वलकुण्डलजातं नीलविराजितमौलसुग्रीवम् ॥ ७॥
जातसमानप्रभाषितगात्रं पूजितसर्वदशदिशि लोके ।
दुःखमनन्तं प्रशमितलोकं सर्वसुखेन च तर्पितलोकम् ॥ ८॥
नरकस्थासु च तिर्यग्गतिषु प्रेतसुरासुरमनुजगतीषु ।
सर्वपिशाचसुखार्पितसत्त्वं सर्वप्रशान्तमपायगतीषु ॥ ९॥
वर्णसुवर्णं कनकनिभासं काञ्चनतप्तप्रभासितगात्रम् ।
सौम्यशशाङ्कसुविमलवक्त्रं विकसितराजितसुविमलवदनम् ॥ १०॥
तरुणरुहाग्रककोमलगात्रं सिंहविवादकविक्रमनादम् ।
लम्बितहस्तप्रलम्बितबाहुं मारुतप्रेरितसाललजिह्वम् ॥ ११॥
व्योमप्रभोज्ज्वलमुञ्चितरश्मिं सूर्यमिव प्रभया प्रतपन्तम् ।
निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासितक्षेत्रमनन्तम् ॥ १२॥
चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रगतेषु ।
तेऽपि च निश्चितसर्वि बभूव बुद्धप्रभासविरोचनतायै ॥ १३॥
बुद्धदिवाकरलोकप्रदीपं बुद्धदिवाकररश्मिसहस्रम् ।
क्षेत्रमनन्तसहस्रगतेषु पश्यतु लोकतथागतसूर्यम् ॥ १४॥
पुण्यशतानि सहस्र च कृत्वा सर्वगुणेभिरलङ्कृतगात्रम् ।
सौरगजेन्द्रनिभं जितबाहुं विमलरक्षितमण्डितबाहुम् ॥ १५॥
भूमितलोपम शालिततुल्यं सूक्ष्मरजोपममागतबुद्धाः ।
सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये तिष्ठन्ति ॥ १६॥
तांश्च जिनान् प्रकरोमि प्रणामं कायेन वाचा मनसा प्रसन्ना ।
पुष्पप्रदान सुगन्धप्रदानैर्वर्णशतेन शुचिश्च स्मरामि ॥ १७॥
जिह्वशतैरपि बुद्धगुणानां कल्पसहस्रशतेन हि वक्तुम् ।
ये च सुनिर्वृतसाधुजिनानां सा च ललाट विचित्र अनेकैः ॥ १८॥
एकजिनस्य गुणान् नहि शक्यो जिह्वसहस्रेण भाषितु किञ्चित् ।
काममशक्ति हि सर्वजिनानामेकगुणस्य हि विस्तरवक्तुम् ॥ १९॥
सर्व सदेवकुलोक्तसमूहः सर्वभवाग्र भवजलपूर्णान् ।
ये जलग्रहणतु शक्यप्रमाणं नैव तु एकगुणा सुगतान्तम् ॥ २०॥
वर्णितु सुस्तुतमज्जिनसर्वं कायतु वाच प्रसन्नमनेन ।
प्रमेय सञ्चित पुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम् ॥ २१॥
एव तु विश्वं नरपतिबुद्धमेव करोमि नृपःप्रणिधानम् ।
यत्र च कुत्र चि मभ्यभवेत जाति अनागत कल्पमनन्ता ॥ २२॥
ईदृशभेरी पश्यमि स्वप्ने ईदृशनादं तत्र शृणोमि ।
ईदृश जिनस्तुति कमलाकरेण जाति जरास्मर तत्र लभेयम् ॥ २३॥
बुद्धगुणानि अनन्तमतुल्यं येऽपि च दुर्लभ कल्पसहस्रम् ।
अनुश्रुत ये च स्वप्नगतेऽपि तेषु च देशयि दिवसगतोऽपि ॥ २४॥
दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभिः पारमिताभिः ।
बोधिमनुत्तर पुण्य लभेयं क्षत्रभवेत्तमभासमपत्थ्या ॥ २५॥
भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः ।
सम्मुखपश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् ॥ २६॥
यौ इम दारकद्वौ मम पुत्रौ कनकेन्द्र कनकप्रभाश्वरौ ।
तौ उभि दारक तत्र लभेयं बोधिमनुत्तरव्याकरणं च ॥ २७॥
ये पि च सत्त्व अनेकमनन्ता शरणविहीना व्यसनगताश्च ।
तेषु भवेय अनागत सर्वत्राणपरायण शरणप्रदश्च ॥ २८॥
दुःखसमुद्भव संक्षयकर्ता सर्वसुखस्य च आकरभन्त ।
कल्प अनागत बोधि चरेयं यत्तहु पूर्वं कोटि गताश्च ॥ २९॥
स्वर्णप्रभासोत्तमदेशनताय पापसमुद्रं शोषतु मह्यम् ।
कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विछिद्यतु मह्यम् ॥ ३०॥
पुण्यसमुद्रं पूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् ।
विमलज्ञान प्रभासवरेण काम प्रभा च भविष्यतु मह्यम् ॥ ३१॥
पुण्यप्रभास विलोचनता च सर्वत्रिलोकि विशिष्ट भवेयम् ।
पुण्यवरेण समन्वित नित्यं दुःखसमुद्र उत्तारयिता च ॥ ३२॥
सर्वसुखस्य च सागरकल्पं कल्पमनागत बोधि चरेयम् ।
यत्नत पूर्वक कोटिगताया ईदृशक्षत्रविशिष्ट त्रिलोके ॥ ३३॥
इति श्रीसुवर्णप्रभोक्तं कमलाकरसर्वतथागतस्तोत्रं सम्पूर्णम् ॥