कर्मविपाकादिकथनम्

कर्मविपाकादिकथनम्

सूत उवाच । आध्यात्मिकादितापांस्त्रींज्ञात्वा संसारचक्रवित् । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ १, २२५.१॥ संसारचक्रं वक्ष्येऽहमादावुत्क्रान्तिकालतः । यद्विना पुरुषार्थो न लीनः स्यात्परमात्मनि ॥ १, २२५.२॥ ऊर्ध्ववासी नरस्त्यक्त्वा देहमन्यत्प्रपद्यते । नीयते द्वादशाहेन यमस्य यमपूरुषैः ॥ १, २२५.३॥ तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह । यच्च पिण्डं प्रयच्छन्ति यमलोके तदश्नुते ॥ १, २२५.४॥ गतश्च नरकं पापात्स्वर्गं याति स्वपुण्यतः । पापकृद्याति नरकं पुण्यकृद्याति वै दिवम् ॥ १, २२५.५॥ स्वर्गाच्च नरकात्त्यक्तः स्त्रीणां गर्भे भवत्यपि । नाभिभूतञ्च तस्यैव याति बीजद्वयं हि तत् ॥ १, २२५.६॥ कललं बुद्बुदमयं ततः शोणितमेव च । पेश्याः पलसमोऽण्डः स्यादङ्कुरं तत उच्यते ॥ १, २२५.७॥ उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च । आवहं याति चाङ्गेभ्यस्तत्परन्तु नखादिकम् ॥ १, २२५.८॥ त्वचो रोमाणि जायन्ते केशाश्चैव ततः परम् । नरश्चाधोमुखः स्थित्वा दशमे च सः जायते ॥ १, २२५.९॥ ततस्तु वैष्णवी माया वृणोत्यत्यन्तमोहिनी । बालत्वं त्वथ कौमारं यौवनं वृद्धतामपि ॥ १, २२५.१०॥ ततश्च मरणं तत्तद्धर्मामाप्नोति मानवः । एवं संसारचक्रेऽस्मिन् भ्राम्यते घटीयन्त्रवत् ॥ १, २२५.११॥ नरकात्प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात्प्रतिगृह्याथ अधोयोनिं व्रजेद्बुधः ॥ १, २२५.१२॥ नरकात्प्रतिमुक्तस्तु कृमिर्भवति याचकः । उपाध्यायव्यलीकं तु कृत्वा श्वा भवति द्विज ॥ १, २२५.१३॥ तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् । गर्दभो जायते जन्तुर्मित्रस्यैवापमानकृत् ॥ १, २२५.१४॥ पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते । भर्तुः पिण्डमुपाश्वस्तो वञ्जयित्वा तमेव यः ॥ १, २२५.१५॥ सोऽपि मोहसमापन्नो जायते वानरो मृतः । न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ॥ १, २२५.१६॥ असूयकश्च नरकान्मुक्तो भवति राक्षसः । विश्वासहर्ता च नरो मीनयोनौ प्रजायते ॥ १, २२५.१७॥ यवधान्यानि संहृत्य जायते मूषको मृतः । परदाराभिमर्शात्तु वृको घोरोऽभिजायते ॥ १, २२५.१८॥ भ्रातृभार्याप्रसङ्गेन कोकिलो जायते नरः । गुर्वादिभार्यागमनाच्छूकरो जायते नरः ॥ १, २२५.१९॥ यज्ञदानविवाहानां विघ्नकर्ता भवेत्कृमिः । देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ॥ १, २२५.२०॥ प्रमुक्तो नरकाद्वापि वायसः सम्प्रजायते । ज्येष्ठभ्रात्रपमानाच्च क्रौञ्चयोनौ प्रजायते ॥ १, २२५.२१॥ शूद्रस्तु ब्राह्मणीं गत्वा कृमियोनौ प्रजायते । तस्यामपत्यमुत्पाद्य काष्ठान्तः कटीको भवेत् ॥ १, २२५.२२॥ कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा । अशस्त्रं पुरुषं हर्ता नरः सञ्जायते खरः ॥ १, २२५.२३॥ कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते । भोजनञ्चोरयित्वा तु मक्षिका जायते नरः ॥ १, २२५.२४॥ हृत्वाज्यञ्चैव मार्जारस्तिलहृच्चैव मूषकः । घृतं हृत्वा च नकुलः काको मद्भुरमामिषम् ॥ १, २२५.२५॥ मधु हृत्वा नरो दंशापूपं हृत्वा पिपीलिकः । अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १, २२५.२६॥ हृते काष्ठे च हारीतः कपोतो वा प्रजायते । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १, २२५.२७॥ कार्पासिके हृते क्रौञ्चो वह्रिहर्ता बकस्तथा । मयूरो वर्णकं हृत्वा शाकपत्रञ्च जायते ॥ १, २२५.२८॥ जीवञ्जीवकतां याति रक्तवस्त्वपहृन्नरः । छुछुन्दरिः शुभान्गन्धाञ्छशं हृत्वा शशो भवेत् ॥ १, २२५.२९॥ षण्डाः कलापहरणे काष्ठहृत्तृणकीटकः । पुष्पं हृत्वा दरिद्रस्तु पङ्गुर्याचकहृन्नरः ॥ १, २२५.३०॥ शाकहर्ता च हारीतस्तोयहर्ता च चातकः । गृहहृन्नरकान्गत्वा रौरवादीन्सुदारुणान् ॥ १, २२५.३१॥ तृणगुल्मलतावल्लीत्वग्घारी तरुतां व्रजेत् । एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ॥ १, २२५.३२॥ विद्यापहारी मूकः स्याद्गत्वा च नरकान्बहन् । असमिद्धे हुते चाग्नौ मन्दाग्निः खलु जायते ॥ १, २२५.३३॥ परनिन्दा कृतघ्नत्वं परसीमाभिघातनम् । नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ॥ १, २२५.३४॥ परस्वहरणाशौचं देवतानां च कुत्सनम् । निकृत्य बन्धनं नॄणां कार्पण्यञ्च नृणां वधः । उपलक्षणाद्विजानीयान्मुक्तानां नरकादनु ॥ १, २२५.३५॥ दया भूतेषु संवादः परलोकं प्रतिक्रिया । सत्यं हितार्थमुक्तिश्च वेदप्रामाण्यदर्शनम् ॥ १, २२५.३६॥ गुरुदेवर्षिसिद्धर्षिसेवनं साधुसंयमः । सत्क्रियाष्वसनं मैत्री स्वर्गस्य लक्षणं विदुः । अष्टाङ्गयोगविज्ञानात्प्राप्नोत्यात्यन्तिकं फलम् ॥ १, २२५.३७॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कर्मविपाकादिकथनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः । गरुडपुराण । पूर्वखण्ड । अध्याय २२५/१-३७॥ garuDapurANa . pUrvakhaNDa . adhyAya 225/1-37.. Proofread by PSA Easwaran
% Text title            : Karmavipakadikathanam
% File name             : karmavipAkAdikathanam.itx
% itxtitle              : karmavipAkAdikathanam (garuDapurANAntargatam)
% engtitle              : karmavipAkAdikathanam
% Category              : misc, garuDapurANa
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : garuDapurANa | pUrvakhaNDa | adhyAya 225/1-37||
% Indexextra            : (Scans 1, 2, 3, 4, English)
% Latest update         : October 3, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org