करुणास्तवः

करुणास्तवः

आचार्यबन्धुबत्तविरचितः । स्तुत्वा प्रणम्यमभयङ्करसर्वसत्त्वं सम्पूर्णचन्द्रवदनाम्बुजपत्रनेत्रम् । सर्वज्ञज्ञानमुकुटोज्ज्वलमुक्तिमार्ग तं पद्मपाणिवरभूषितज्ञानराशिम् ॥ १॥ उत्तुङ्गनाकवरपीनकपोलवक्त्रं रक्ताधरं हिमतुषारसितासुदन्तम् । ब्रह्मेश्वरं श्रुतिधरं मधुरं च वाक्यंश तं पद्मपाणिमृदुवर्णस्वरं नमामि ॥ २॥ मालाधर कनकरत्नविभूषिताङ्गं नेत्रत्रयं जटविभूषितबालचन्द्रम् । कृष्णाजिनाम्बरधरं च सुवर्णवर्ण तं पद्मपाणिमृदुगात्रभरं नमामि ॥ ३॥ त्वां लोकनाथमवलोकितनामधेयं यज्ञोपवीतसुद(शुभ)चञ्चलसर्पराजम् । चिन्तामणिप्रवरकुण्डलघृष्टगात्रं तं पद्मपाणिस्तुतिसर्वकृतं नमामि ॥ ४॥ त्वं ज्ञानराशिवरभाषितसर्वसत्त्वः संसारकम्पतिमिरार्णवमग्नसत्त्वान् आलोकिते पदमनुत्तरबोधिमार्ग पद्मपाणिवरमार्गददनमामि ॥ ५॥ गत्वा च येन नरकेषु-अवीचिमग्नं शीतीकृतं हृदि विशालरुहं सपद्मम् । यो नारकी(क)सकलदुःखमनाशयच्च त पद्मपाणिनरकाग्निशमं नमामि ॥ ६॥ तं सन्त्रासयन्ति यमपालकमग्नभूमि हे धर्मराजमिव आगतकामरूपि । ये कर्मभूमिमिव ध्वंसति ते निमित्तं तं पद्मपाणिहतशासनतं (?)नमामि ॥ ७॥ गल्वा च येन वररूपमनोहराय त्रैलोक्यनाथमभयङ्कर सर्वसत्त्वाः । दुःखार्णवे तव स्मराणि विमुक्तिदुःखं तं पद्मपाणिहतकिल्विषक नमामि ॥ ८॥ त्वं प्रेतलोकगतये करुणावशेन गी सूचीमुखानुदरपर्वतजीर्णमङ्गान् । क्षुत्तृष्णदुःखभयपीडितप्रेतसत्त्वान् तं पद्मपाणितृषनाशकरं नमामि ॥ ९॥ अन्योन्यभक्षक्षुधपीडितप्रेतसत्त्वाः सम्पीयते कररुहश्रवते नदीभिः । पुष्टि शरीरहतभुक्षतृषातुराणां तं पद्मपाणिहतभुक्षतृषं नमामि ॥ १०॥ गत्वा तम भुवनवजितचन्द्रसूर्ये चिन्तामणिज्वलितरत्नप्रभावभासे । तं यक्षराक्षसगणश्चरणे नमस्ते तं पद्मपाणितमभङ्गकृतं नमामि ॥ ११॥ गत्वा च येन बलिभग्नमनोरथस्य यद्दीयतेऽनुत्तरपिण्डपात्रम् । धर्मकथेन परितर्पितदानवेन्द्र तं पद्मपाणिवरधर्मददं नमामि ॥ १२॥ गत्वा च येन दिवि कुण्डलदेवपुत्रं दानस्य हीनक्षुधपीडितदुःखितं च । तं याचयामि परिपूर्णसमृद्धिरत्नं तं पद्मपाणिधनवृद्धिकरं नमामि ॥ १३॥ घातस्य त्वं कामरूपमुपदर्शितराक्षसीभिः कामावशेन चरितं तव राक्षसीभिः । चित्तपरिवजितधर्मचित्तं तं पद्मपाणिबहुरूपधरं नमामि ॥ १४॥ विण्मूत्रभूमिकृमिकोटिसमुद्भवन्ति गत्वा च येन अलिरूपमनुस्मरन्ति । निःसारितं घुणघुणाय ददन्ति धर्म तं पद्मपाणिमलिरूपधरं नमामि ॥ १५॥ दुभिक्षमागधविशालभवेषु पुष्टि पुष्टि मामला क्षुत्तृष्णदुःखभयपीडितसर्वसत्त्वाः । धान्यादिवृष्टिबहुव्रीहिसमृद्धिरत्नं तं पद्मपाणिवरकारुणिकं नमामि ॥ १६॥ वाराह-अश्वकृतरूपमहाजवेन उद्धृत्य येन वणिजो भयराक्षसीभिः । क आस्तीर्य तं पवनवेगमहासमुद्र तं पद्मपाणिजितमृत्युभयं नमामि ॥ १७॥ धातुकं तव भजामि विमुक्तिदुःखं नानासमाधिपरिपूर्णविचित्रमग्नम् । त्वद्रोमकूपनिवसन्ति अनेकसत्त्वाः तं पद्मपाणिक्षयनाशकरं नमामि ॥ १८॥ नानाभयानि तव नाममनुस्मरन्ति राज्ञश्च दण्डभयराक्षसचौरभूतैः । नद्यादिमार्गहतकन्दर चाग्निदग्धं तं पद्मपाणिमभयं ददतं नमामि ॥ १९॥ व्याघ्रीभयं खगपिशाचसडाकिनीना- मापत्सु व्याधिबहुकुष्ठवियोगदुःखम् । नाशयन्ति तं पद्मपाणिभयनाशकरं नमामि ॥ २०॥ वैराग्यक्लेशबहु-आपद शुक्लाष्टमीनियमधर्मममोघपाशं तस्मै कृतं विजितमिन्द्रियब्रह्मचर्यम् । सर्वप्रणम्य निजगेयमशेषपापं तं पद्मपाणिवरदं सततं नमामि ॥ २१॥ नित्यं वसन् गुणसमृद्धितपोबलेषु नानाद्रुमैस्तिलकचम्पकपारिजातः । रम्यं तडागद्विजश्वापदसेवितं च तं पद्मपाणिनिरयेषु सदा नमामि ॥ २२॥ देवैः कुबेरवरुणैर्यमवन्दितश्च गन्धर्वयक्षमुनिदानववन्दितश्च । रक्षश्च नागमनुजैश्च नमस्कृतेषु भूतैः पिशाचगरुडेश्च नमस्कृतेषु ॥ २३॥ ये ये पठन्ति करुणास्तव नित्यकालं शान्ति च पुष्टिधनवृद्धिषु लब्धकामाः । आयुर्विभूतिवरसौख्यविशालभागी त्रैकालप्राप्तमपि पश्यति लोकनाथम् ॥ २४॥ सङ्कीर्तयन्ति तव वीर्यमहानुभाव रात्रौ दिवा च तव नाममनुस्मरन्ति । दुःस्वप्नविघ्नभयपापविनाशयन्ति तुष्यन्तु देव सततं तव रक्षयन्ति ॥ २५॥ इति श्रीमदार्यावलोकितेश्वरभट्टारकस्य श्रीबन्धुदत्ताचार्यकृतः करुणास्तवः समाप्तः ।
% Text title            : Karuna Stava
% File name             : karuNAstavaH.itx
% itxtitle              : karuNAstavaH
% engtitle              : karuNAstavaH
% Category              : misc, buddha, stava
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DSBC staff
% Proofread by          : Miroj Shakya
% Indexextra            : (Scan, Text 1, 2)
% Acknowledge-Permission: Prof. Miroj Shakya, Text  Nagarjuna Institute of Exact Methods, Digital Sanskrit Buddhist Canon Project, University of the West https://www.dsbcproject.org/
% Latest update         : March 8, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org