केरलं मनोहरम्
केरलं मनोहरं
चारूवृक्षपूरितम् ।
हारकं चित्तपद्मनां
भूरिजननिवासिनाम् ॥
हरितशाद्वलैर्युतं
परितः सागरैर्भरम् ।
केरकेदार सुन्दरं
वीरजनवर्धकम् ॥
``केरल'' नामैव सम्पन्नं
केरवृक्षकजालकैः ।
कार्यमेव वन्दनं तस्मै
केरलाय चाहर्निशम् ॥
वन्दनीयमुनिभिः
शङ्करैश्च कविभिः ।
सन्ततं सुसेवितं
सुन्दरं वर्णोद्यानम् ॥
--- विजयन् वि. पट्टाम्बी