श्रीखण्डखण्डषट्पदी
श्रीखण्डखण्डः प्रतिभाति शिल्पिवरेण चित्रीकृतसर्वगात्रः ।
लताविकारैरपि पक्षिशाखामृगैश्च सुग्रीवपुरीव रम्या ॥ १॥
कीशावृतत्वेन विभासमानः
श्रीखण्डखण्डः कृतचित्रशिल्पः ।
विभाति मच्चेतसि नूनमद्य
लङ्केव शाखामृगसन्निरुद्धा ॥ २॥
वस्त्वेकमेव प्रतिभाति नाने-
त्यारम्भणादिश्रुतिसिद्धमर्थम् ।
श्रीखण्डखण्डः परिदृश्यमानो
लतामृगाकारतया व्यनक्ति ॥ ३॥
शाखामृगाकारतया विभान्ती
चातुर्यतः शिल्पिवरस्य नूनम् ।
श्रीखण्डवृक्षस्य विचित्रमेत-
त्कीशस्य शाखामृगतां व्यनक्ति ॥ ४॥
श्रीखण्डखण्डोऽपि मुदं तनोति
किं श्रीसमस्तैक्यविबोधमेषः ।
समीक्षकाय प्रतनोति नूनं
श्रीखण्डखण्डो बहुचित्रशिल्पः ॥ ५॥
श्रीखण्डखण्डोऽन्तररूप एव
बहिश्च नानाविधरूपभाक्च ।
विचार्यमाणोत्तरसारबुद्धिं
बाह्येषु भावेषु तनोति शीघ्रम् ॥ ६॥
आकण्ठमापीय मरन्दवृन्दं
विनिर्गता मद्वदनाब्जमध्यात् ।
श्रीखण्डखण्डस्य गृहीतुकामा
नूनं सुगन्धं वरषट्पदीयम् ॥ ७॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीस्वण्डखण्डषट्पदी सम्पूर्णा ।
Proofread by PSA Easwaran