कुरु समर्पणम्
कुरु समर्पणम् ।
शुभङ्करमिदं भारत
कुरु समर्पणम् ॥ ध्रुवम्॥
राष्ट्रस्यैषा कीर्तिः प्रसरतु दिशि दिशीयं
चन्दनमिव सुगन्धितं भवतु हि नो जीवनम् ।
साधयितुं सङ्कल्पस्यास्य हि सम्पादनं
कीर्तिविजयदं भारत कुरु समर्पणम् ॥ १॥
सार्थाय परार्थाय राष्ट्राय निरन्तरं
तनुधनप्राणं सिद्धं भवतु स्वकीयं सुखम् ।
निर्भयेन चेतसा सगौरवं शिवास्पदं
वराभयप्रदं भारत कुरु समर्पणम् ॥ २॥
-- याजुषी