कुर्वन्तु हे मित्राणि भवन्तो भारते भ्रमणम्
कुर्वन्तु हे मित्राणि! भवन्तो भारते भ्रमणम् ।
इह खलु स्वर्गानुभूतिः निवर्तनन्नैव सम्भवम् ॥ ध्रुवम्॥
विश्वस्मिन्सर्वोच्चा भ्रातुर्वल्लभस्य प्रतिमा ।
मन्यन्ते देशवासिनो वसुन्धरां कुटुम्बमेकम् ॥ १॥
हरियाणास्थे कुरोर्धामे ज्योतिसरख्यातो ग्रामः ।
दत्तं यत्र अर्जुनाय गुञ्जति गीताज्ञानम् ॥ २॥
धर्मप्रियाः गुरुगोविन्दाः यत्सुताः भित्तौ श्लिष्टाः ।
राज्ञी झान्स्याः वीरोत्तमा प्रतीता पुरुषो ह्यूरोजम् ॥ ३॥
चतुरधिकशतोपग्रहाणां प्रेषणं विश्वे कीर्तिमान् ।
कथ्यते स्वर्णचटका विश्वगुरुर्देशोभारतम् ॥ ४॥
देवेषु जनानां श्रद्धा दर्शनीयातीव विरला ।
सिङ्गणापुरं शनिकृपया निरर्गलं तन्नगरम् ॥ ५॥
ऋतवस्तु षड्भारते वसन्तग्रीष्मशिशिरादयः ।
हर्षितो जय भगवान् लिखति देशमहिमानम् ॥ ६॥
प्रणेता- जय भगवान शास्त्री, कैथल (हरियाणा)