लक्ष्यमस्ति निश्चितम्
लक्ष्यमस्ति निश्चितं तथा विचारितं,
आचरेम मित्र ! संस्कृतेन पाठनम् ॥ ध्रुवम् ॥
आङ्ग्लभाषया हि आलमद्य पाठ्यते,
हिन्दी हिन्दीभाषया तथैव शिक्ष्यते
संस्कृतेन संस्कृतं कथं न पाठ्यते
आचरेम मित्र ! संस्कृतेन पाठनं
लक्ष्यमस्ति निश्चितम् ॥ १॥
बोधकारकं तथा सुदीप्तिकारकं
रहस्यभेदनं विधाय तुष्टिदायकं
रसानुभूतिरेव येन जायते ध्रुवं
आचरेम मित्र ! संस्कृतेन पाठनं
लक्ष्यमस्ति निश्चितम् ॥ २॥
साध्यमस्ति संस्कृतेन शिक्षणं वरं
श्रद्धया स्वनिष्ठया विवधितं त्वरं
नास्ति क्लिष्टतायुतं विरम्यते कथं
आचरेम मित्र ! संस्कृतेन पाठनं
लक्ष्यमस्ति निश्चितम् ॥ ३॥