लसति भारती भारते सदा
लसति भारती भारते सदा
चिरपुरातनी नित्यनूतना ॥ ध्रुवम्॥
निगमनिस्सृता विश्ववन्दिता
ऋषिभिरीडिता धीप्रचोदिनी ।
कविभिरीरिता कल्मषापहा
रसिकरञ्जिनी ध्वान्तनाशिनी ॥ १॥
रघुवरप्रिया कृष्णभाषिता
सकलमानवैरादृता सदा ।
श्रवणमङ्गला शान्तिदायिनी
मधुरमञ्जुला देववैखरी ॥ २॥
पितृपितामहैर्भाषितामिमां
बहुविचक्षणैर्पोषितप्रभाम् ।
विषुधराधितां शास्त्रसम्मितां
दशदिशास्विमां घोषयामहै ॥ ३॥
विपुलवैभवां देवतामिमां
विमलकीर्तितामर्पितुं वयम् ।
तनुसमर्पणं मानसार्पणं
धनसमर्पणं कर्तुमुद्यताः ॥ ४॥