लोकेश्वरस्तोत्रम्
नानाकृतिं सुकृतिनं जगतः शरण्यं लोकेशकेशवहरात्मधरैरवश्यम् ।
संसारसागरतरं कमलायताक्षं श्रीलोकनाथविबुधं शुभदं भजामि ॥ १॥
रक्षाकरं सकलभीतिवतां जनानां वामाननं कनककुण्डलचारुकर्णम् ।
ग्रैवेयकादिमणिकाभरणेन शोभं श्रीलोकनाथविबुधं शुभदं भजामि ॥ २॥
भक्त्या नतस्य मनुजस्य विपद्विरामं स्वर्गापवर्गफलदं वरदं दयालुम् ।
देवाधिदेवममरं जिनसङ्घवन्तं श्रीलोकनाथविबुधं शुभदं भजामि ॥ ३॥
सन्तप्तरूपतिलकं तिलकं सुराणां रत्नाकरं कनककुन्तकशोभहस्तम् ।
भ्राजिष्णुमाभरणधारणदिक्प्रदं तं श्रीलोकनाथविबुधं शुभदं भजामि ॥ ४॥
दुर्गन्धदुर्गतिहरं दुरितापहारं दुर्भिक्षनाशकरणं करुणाकरं तम् ।
विद्याप्रदं गुणनिधिं शुभशुद्धदेहं श्रीलोकनाथविबुधं शुभदं भजामि ॥ ५॥
इत्थं वरं सकलभूतगणाधिनाथं त्रैलोक्यनाथममरैरपि वन्द्यमानम् ।
एवं क्वचिद् रथवरे सुखसंप्रविष्टं श्रीलोकनाथविबुधं शुभदं भजामि ॥ ६॥
यक्षादिकिन्नरनरैर्मुनिभिश्च नागैर्विद्याधरैः सुरगणैर्दनुजैः पिशाचैः ।
सर्वोपकारनमितं पुटिता ग्रहस्तैः श्रीलोकनाथविबुधं शुभदं भजामि ॥ ७॥
गन्धादिचन्दनयुतं मृगनाभिभिश्च कर्पूरकुङ्कुमवरैर्हरिचन्दनैश्च ।
तस्यानुलेपनकृतेन सुशोभिताङ्गं श्रीलोकनाथविबुधं शुभदं भजामि ॥ ८॥
रोगादिनाशनकरं भजतां सुनाम शोकादिदुःखहरणं सुखचिन्तनीयम् ।
पीयूषतुल्यवचनं मृदुजातगात्रं श्रीलोकनाथविबुधं शुभदं भजामि ॥ ९॥
आजानुलम्बितकरं गजराजमध्यं सौन्दर्यकुण्डशिखरं स्फटिकाभदन्तम् ।
अत्यन्तसुन्दरतनुं शुभलक्षणाङ्गं श्रीलोकनाथविबुधं शुभदं भजामि ॥ १०॥
ये लोकनाथस्य सदा सुरभ्यं स्तोत्रं पठिष्यन्ति जना सभावाः ।
श्रीलोकनाथोऽपि तदीप्सितार्थं स्वहस्तग्रस्तस्त्वरितं ददाति ॥ ११॥
इति श्रीलोकेश्वरस्तोत्रं सम्पूर्णम् ॥