मादलापञ्जिकायाः विहङ्गमदृष्टिः

मादलापञ्जिकायाः विहङ्गमदृष्टिः

लेखकः - नन्दप्रदीप्तकुमारः गद्यसाहित्ये मादलापञ्जिका श्रेष्ठतमा कृतिर्वरीवर्ति । श्रीजगन्नाथमन्दिरस्य इयं पञ्जिका न पञ्चाङ्गपरका अपितु ऐतिह्यपरका एव सर्वैर्मन्यते । इयं न केवलं पूर्ववर्तिराज्ञां परिचयात्मिका किन्तु जगन्नाथमन्दिरस्य सर्वा नियमावल्यः अत्र उपनिवद्धाः भवन्ति । कदास्य प्रवर्तनं जातं एतद् व्याख्यातुं न कोऽपि प्रत्यक्षतया समर्थः । तथापि ऐतिहासिकतथ्यमवलम्ब्य अस्मिन् कार्ये पूर्वसूरिणः यथासाध्यं चेष्टिताः परिष्कृताश्च दृश्यन्ते । अद्यावधि एतद्विषये जिसासा असम्पूर्णा एव । समयानुसारं विभिन्नानां राज्ञां तथा श्रीमन्दिरस्य उत्कलराज्यस्य च इतिहासं विरचयितुं विभिन्न-किम्बदन्तीपुरःसराः लेखकाः इदं प्रत्नं साहित्यं रससिक्तं कर्तुं चेष्टितवन्तः । इयं पञ्जिका उत्कलस्य राजवंशः , विभिन्नमन्दिराणां किम्बदन्ती विषये तथा प्राचीनशब्द-प्रयोगानां समाहारेण हृष्टपृष्टा सती उत्फुल्लिता दृश्यते । प्राचीन-ओडिआसाहित्ये ये केचन गद्यग्रन्था दृष्टिगोचरा भवन्ति तेषु मादलापञ्जिका श्रेष्ठतमा कृतिः । जगन्नाथमन्दिरस्य नीतिनिर्घण्टाः, सेवा-पूजाविधयः, श्रीमन्दिरप्रशासनप्रणाल्यः, समसामयिकसामाजिकव्यवस्थाः, राजनैरिकपरिवेशचित्राणि च अत्र सम्यक् रूपेण चित्रितानि सन्ति । ओडिशा-गद्यसाहित्यस्य विकाशोन्मुखी चिन्ताधारा अस्यां पञ्जिकायां लिपिवद्धा दृश्यते । ख्रीष्टियद्वादशशताब्द्यारभ्य अद्यावधि देवाधिदेवस्य श्रीजगन्नाथस्य इतिवृत्तमस्यां पञ्जिकायां समुपलब्धम् । यथा वैदेशिकाक्रमणात्वारम्बारं मन्दिराद्वहिः जगन्नाथस्यागमनं गुप्तस्थाने निवासः पुनः मन्दिरं प्रत्यावर्तनादिकं सर्वाणि वृत्तान्तानि मादलायां वर्णितानि सन्ति । अस्याः मादलेति नामकरणे ऐतिहासिकेषु भिन्न मतानि दृश्यते । ऐतिहासिक-मनमोहनचक्रवर्तिमतेन ``मुदल'' शब्दात् मादला जाता । तत्र मुदलं नाम मुद्रितकरणम् । अर्थात् लेखनात् परं तं जतुद्वारा राज्ञः स्वाक्षरमाध्यमेन रुद्धीक्रियते । अस्मिन् प्रसङ्गे विदुषा रमाप्रसाद चान्देन भिन्नमतं प्रदत्तम् । तन्मतानुसारं मर्दलः वाद्यविशेषः । लिखनात्परं मर्दलाकारेण तं निबद्ध्य जतुनास्स्बद्धः क्रियते स्म । पण्डित सूर्यनारायण दाशः, पण्डित सदाशिव रथशर्मा, अध्यापकः आर्तवल्लभ महान्ति राखाल दाश वन्दोपाध्यायः डः देवेन्द्र महान्ति डः मायाधर मानसिं प्रमुखाः पण्डिताः ऐतिहासिकाश्च एतद्विषयं समर्थितवन्तः । परवर्तिसमये गवेषकः सत्यनारायण राजगुरुमहाभागाः द्वाभ्यां तेलगु-शब्दाभ्यां मादलाया अर्थनिर्धारणकर्तुं चेष्टितवन्तः । मोदलिः तथा मोदलुङ्गा इति द्वौ शब्दौ तेन व्यवहृतौ । आद्यः मोदलिः अर्थात् यः लिपिबद्धः । द्वितीयः मोदलुङ्गा यः धारावाहिततया लिपिबद्धा भवति । प्रकृतपक्षे द्वौ शब्दौ एकार्थकौ स्तः । एतन्मतं गगनेद्रनाथ दासादयः अन्ये समालोचकाश्च समर्थितवन्तः । मादलेति शब्दस्य आभिधानिकोर्थः असम्पूर्ण एव । श्रीजगन्नाथविग्रहः साक्षादसम्पूर्णः । सुतरां केचनः भक्ताः सादरं जगन्नाथं मादल इति श्रद्धया कथयन्ति । श्रीजगन्नाथविग्रहं लक्षीकृत्य अस्याः मादलेति नाम विख्यातमिति युक्तियुक्तमेव प्रतिभाति । अस्याः पञ्जिकायाः न कोऽपि निर्दिष्टो लेखको वर्तते । केचन अर्धशिक्षितकर्मचारिभिः मादला प्रकटीकृता इति वदन्ति । किन्तु तन्मतं न स्वीकर्तव्यम् । एतेषां सङ्ख्यानिर्धारणमसम्भवम् । राज्ञः निर्देशेन ते पारम्परिककार्यं कुर्वन्ति स्म । मुख्यतया ते द्विधा विभक्ताः । देउलकरण-तढाउकरणभेदात् । देउलकरणैर्लिखिता पञ्जिका श्रीजगन्नाथमन्दिरे प्रचलिता स्वगृहे संरक्षिता वर्तते । तढाउकरणैर्लिपिबद्धा या सा राजप्रासादे सुरक्षिता भवति । श्रीमन्दिरनीतिनियोगव्यवस्था, सेवा, पर्वणि,परम्परा, नियमावल्यश्च देउलकरणानामधिकारे वर्तन्ते । एतेषां धारावाहिकीरचनाकाराः ते प्रमाणिता । अनेकानां राज्ञां राजभोग-राज्यशासन-कीर्तिकलापादयः विषयाः पुङ्खानुपुङ्खरूपेण तढाउकरणैः सम्पादिता सन्ति । देउलकरणः तढाउकरणश्च न कश्चित् व्यक्तिविशेषा , किन्तु वंशानुक्रमिकपरम्परानुसारेण श्रीजगन्नाथसेवकसम्प्रदायविशेषा एव । डः हरेकृष्ण महतावेन ``ओडिशा इतिहासे'' भोइवंश-गजपति रामचन्द्रदेवस्य समसामयिक वटकृष्ण महान्तिः मादलाया आद्यलेखकरूपेण स्वीकृतः । मादलापञ्जिका न केनापि एकेन लेखकेन लिखिता । बहवो लेखकाः समयानुसारं वर्तन्ते , तेषां नामानि ज्ञातुं ऐतिहासिका न समर्था भवन्ति । मादलापञिकायाः रचनाकालविषये न कोऽपि सिद्धान्तः सर्वमान्यः स्थिरीकृतश्च । एतद्विषये ऐतिहासिकाः समालोचकाः गवेषकाश्च नैकमतानि प्रदत्तानि । कतिपया आलोचकाः अस्याः रचनाकाल एकादश -द्वादश - त्रयोदशशतकं वा मन्यन्ते । पुनः केचनः पञ्चदश-षोडश-शतकं वा स्वीकृतवन्तः । ऊनविंश-शताब्दी अस्याः संरचनाकाल इति डः नवीनकुमार साहु प्रमुखा समालोचका कथयन्ति । ओडिशा -इतिहास- लेखनावसरे पाश्चात्या आङ्ग्लाः अस्याः मादलापञ्जिकायाः साहाय्यं नीतवन्तः । मादलातिरिक्तं साधनाभावात् ते मादलां प्रामाणिकग्रन्थरूपेण स्वीकृतिं दत्तवन्तः । १८२२ ख्रीष्टाब्दे ष्टर्लि तथा १८७२ ईसवीये हण्टर प्रमुखाः पाश्चात्य पण्डिताः मादला-सहायतया आङ्ग्लभाषाप्रसूतं ओडिशा इतिहासं विरचितवन्तः । ष्टर्लिमतेन अस्याः निर्माणसमयः त्रयोदशशताब्दी अनङ्गभीमदेव द्वितीयस्य काल एव । हण्टरमतेन एकादशशताब्दी । प्यारीमोहन आचार्यमतेन त्रतोदशशतकमेव । ऐतिहासिकः मनमोहन चक्रवर्तिभाषया - It is know when these records began to be kept but from the fact that a large number of details date from the time of ananga bhimadeva, the system would appear to have been established by him as a rule the later the accounts the more reliable they are. (Notes on the language and litreture of odisha -part-3 and 4/M.M. chakravarti, J.A.S.B.-part -2 1897 p, 377) मादलापञ्जिकायां मोगल शब्दप्रयोगात् मोगलानां (यवनानां) ओशिशा -आक्रमणात्परमियं पञ्जिका सृजिता इति अपरे सन्न्दिहानाः भाषन्ते ॥ १९३२ ख्रीष्टाब्दे डः आर्तवल्लभ- महान्तिना गद्यपद्यादर्श-सम्पादनावसरे मादलापञ्जिका साहित्यरूपेण स्वीकृतिः प्राप्ता । तेन ययातिकेशरी समयादस्याः आविर्भावो जातः स्वीकृतः । तन्मतानुसारं- ᳚The panji seems to have begun from the time of jajati keshari᳚ Introduction- prAchIna gadyapadyAdarshaH page-2 पूर्णचन्द्र ओडिआ भाषाकोशकारेण गोपालचन्द्र प्रहराजेन मादलायाः रचनासमयः एकादशशताब्दी चोडगङ्गसमय एव निश्चितः । तन्नये- ᳚The madala panji the cunnalsvof the great temple at puri was begun to be preserved in the temple since the 11th century A.D by king cholagangadev. Though there are reasons to think that there have been interpolation,additions and alteration to the original entries , still the language used in them and preserved upto date really shows it to be the bygone froms of the present -day oriya.᳚ pUrNachandra bhAShAkoshaH vol-1 introduction ``ओडिआ साहित्यर परिचय'' नामके ग्रन्थे ग्रन्थकारेण सूर्यनारायण दासेन मादलायाः निर्माणकालः चोडगङ्गदेवसमयः स्थिरीकृतः । ख्रीष्टतः १०७७ कन्या १४ दिवसे शुक्लदशम्यां चोडगङ्गदेवः सिंहासनाधिरूढो बभूव । तदानीं दशहरादिवसे तस्याभिषेकः सञ्जातः । तद्दिने मादलापञ्जिकाया अयमारभस्तदादेशेन आसीदिति तथ्यमुपलभ्यते ओडिआ साहित्यस्य इतिहासे पुस्तके १९३ पृष्ठे । चोडगङ्गदेवस्य विद्यास्पृहा, स्वकीयवंशावलि-लिपिबद्ध-चिकीर्षया च मादला समजनि । एकादशशताब्द्यारभ्य अद्यावधि मादला लिपिबद्धा दृश्यते । ऐतिहासिकः कृपासिन्धु मिश्रः ``ओडिशा इतिहास'' पुस्तके दाशमतं समर्थयति । डः मायाधर मानसिहेनापि इदं समर्थयन् वक्ति तदीये पुस्तके - ᳚This chornicle is supposed to have been started at the command of the first king of the Ganga dynasty, Chodagangadeva of the 11th 12th century A.D.᳚ (history of Oriya Literature p. 41 Mayadhar Mansingh, 1962-Sahitya Academy Publication New Delhi) पण्डित सदाशिव रथशर्मप्राप्त मादलायां प्राचीन पालि तथा ब्राह्मीमातृकायाः लिखितशब्दाः दृश्यन्ते । ``ओडिशा साहित्य इतिहासे'' डः हरेकृष्ण महतावेन सम्पादिते पुस्तके अस्याः रचनाकालः १६श शताब्दीति स्वीकृतः । यतो हि तदानीं ओडिशा यवनानामधिकारे आसीत् । पण्डित नीलकण्ठ दास विरचिते ``ओडिआ साहित्यर क्रमपरिणाम'' शीर्षके पुस्तके तेन भणितं - मादलापञ्जिका भोइवंशस्य प्रथम रामचन्द्रदेवात् (१५९२-१६०७) न प्राचीना । पृ-२६९ पण्डित विनायक मिश्रेण तु ``ओडिआ साहित्यर इतिहासे'' मादला सप्तदशशताब्दीया एव । ऐतिहासिकः कृष्णचन्द्र पाणिग्राही अस्याः रचनाकालः षोडशशताब्दी मनुते । तन्मतानुसारं - ``यदुवंश राजाए एणे उदित होइले । दनेइ बिद्याधरङ्क पुअ तोटमी गडरे थिले । राजा रामचन्द्र राजा होइले'' । मादलापाञ्जि -पृ६२ डः कुञ्जविहारी त्रिपाठी मतेन मादला पञ्चदशशताब्दीया । पण्डित सदाशिव रथशर्मणः पञ्जिकानुसारं तेन भणितं -᳚So in the light the above circumstances we are led to conclude that the madala panji(raj bhoga) was begun to be written during the suryavansi period some time about the 15th century and that copies of the same were made froM time to time . At least a copy of a part of the panji was made during the reign of ramachandra Deva of the last decade of the 16th century.᳚(The chronicle of the jagannath temple of puri - Dr. K.B.tripathy,indian history congress proceedings of the twentieth session - 1957) समालोचकेन रमेश प्रसाद महापात्रेण झङ्कारपत्रिकायां षोडशशताब्दी अस्याः रचनाकालः स्वीकृतः । ``ओडिआ गद्यर विकाशधारा'' पुस्तके गोपालमिश्रेण एतत्तथ्यं स्वीकृतम् । डः नवीनकुमार साहुमहाभागेन ऊनविंशशताब्दी निश्चयीकृता । उपर्युक्तमतानुशीलनेन एकादश-द्वादश-त्रयोदशपदेन ष्टर्लि-हण्टर-मनमोहन-आर्तवल्लभ-गोपालचन्द्र-सूर्यनारायण-कृपासिन्धु-मायाधर-सुनीतिकुमार-अनिरुद्ध-सदाशिव रथशर्म प्रमुखाः दृष्टिपथं समायान्ति । द्वितीयः पञ्चदश-षोडश समर्थिताः हरेकृष्ण महताव -नीलकण्ठ-विनायक-परमानन्द-रामप्रसाद-कृष्णचन्द्र-कुञ्जविहारी- रमेश प्रसाद-बीशीधर-गोपालचन्द्र-सच्चि राउतराय प्रमुखाः मूर्द्धन्यभूताः आसन् । मादलापञ्जिका श्रीजगन्नाथं प्रति उत्कलीयानां श्रद्धा सुमनं प्रददाति । तं सम्मानयति । श्रीजगन्नाथविषये ऊहापोहं वक्ति । तदुक्तं मादलायां ययातिकेशर्यां - ``ओडिशा राजार प्रभु ये श्रीजगन्नाथ महाप्रभु से कांहिछन्ति ? सेमाने कहिले मुगल गोल होइलारु सोमोन्द्र छाडि ऐलाकु अपारदिन होइगला । श्रीपरमेसरङ्कु पाताली करि सुनुपुरु आडे कौण्ठारे बिजे कराइले गान्तब नाहि । एहाशुणि महाराजा सुनुपुर गले । सेठारे खण्डाइतङ्कु पचारिले । सेमाने कहिले आमे गान्तब नोहु । आम्भ बापा अजा कहन्ति दिअबर एहि । एथितले दिंअकु पोतिथिले'' । (मादलापाञ्जि पृ-५-६) यद्भवतु मादला भाषा बहुप्राचीना । इतिहासपरका । सम्माननीया । भवतु एकादशशताब्दीकालिना, अन्या वा किन्तु अतिदीर्घकलेवरा सती उत्कल सार्वभौम शेखर लीलाकरस्य मधुरां श्रीजगन्नाथसंस्कृतिं विस्तारयतितरां मन्ये । तस्यै सश्रद्ध-प्रणतिपूर्वकमालेखं विश्रामयामि । जय जगन्नाथ । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Panoramic Vision of Madalapanjika
% File name             : mAdalApanjikAyAHvihaMgamadRRiShTiH.itx
% itxtitle              : mAdalApanjikAyAH vihaMgamadRiShTiH (lekhaH)
% engtitle              : mAdalApanjikAyAH vihaMgamadRiShTiH
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org