माहात्म्यं देववाचः
सखे ! श्रृणु देवभारती ज्ञानं वितरति विविधं विविधं रे!
वितरति विविधं विविधं रे! ॥
भारतीय संस्कृतिरेषा संसारे बहुविख्याता,
वेदपुराण - धर्मग्रन्था अस्यामेवोपन्यस्ताः ।
मुनिना वाल्मीकिनाऽपि रामायणमत्रैव लिख्यते रे ! ॥ १॥
सखे ! श्रृणु देवभारती ज्ञानम् ॥
महाभारते सङ्कटकाले पार्थे मोहापन्ने
श्रीकृष्णेन भगवता यस्यामुपदिष्टा शुभगीता ।
रुचिरं कालिदास-शाकुन्तलमिह मे चेतो हरते रे ! ॥ २॥
सखे! श्रृणु देवभारती ज्ञानम् ॥
देवानामेषा वाणी भवबन्धन-दुःखविहन्त्री,
ब्रह्मानन्द बोधयित्री सर्वेभ्यो मुक्तिप्रदात्री ।
त्वमतः पठ संस्कृतवाङ्मयं श्रद्धया दिवसे दिवसे रे ! ॥ ३॥
सखे ! श्रृणु देवभारती ज्ञानम् ॥
--- प्रशस्यमित्रशास्त्री