मालति! अवरोधय निजबालम्
मालति! अवरोधय निजबालम् ॥
त्वं न विश्वसिषि विहससि सततं दमयसि नहि निजलालम् ।
मालति! अवरोधय निजबालम् ॥
बालसखैः सह प्रविशति सदने चोरयते नवनीतम् ।
विभजति विहसति क्रीडति नृत्यति मनति न तद्विपरीतम् ।
मालति! अवरोधय निजबालम् ॥
निलीयतेऽस्मत् किन्तु समीक्षे सर्वं तस्य विधानम् ।
सखिपीठं सोपानं कुरुते विदलति भाणुपिधानम् ।
मालति! अवरोधय निजबालम् ॥
नयते पातयते नवनीतं लेपयते निजवदनम् ।
भुङ्ते भोजयते च वयस्यं पलायते सदलम् ।
मालति! अवरोधय निजबालम् ॥
अवसरमागमनस्य प्रतीक्षे प्रतिदिनमयि सखि! सदने ।
समयव्यतीपातं नहि सहते चेतो मे विधुवदने ।
मालति! मारोधय गोपालम् ।
मालति! मारोधय निजं बालम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com