मानस! पिब रे श्यामरसम्
मानस! पिब रे श्यामरसम् ॥
सच्चिन्मयमतिशयमधुमयममृतादपि मधुरतरम् ।
मानस! पिब रे श्यामरसम् ॥
ऋषिमुनियोगियतीन्द्रभक्तजनसुभगवरैरसितम् ।
शुकनारदसनकादिसनातनसिद्धजनैः स्वदितम् ।
मानस! पिब रे श्यामरसम् ॥
अणिममहिमलघिमादिवशित्वं सिद्धिफलं सकलम् ।
अनुभूयापि रसयिता सततं रसयति श्यामरसम् ।
मानस! पिब रे श्यामरसम् ॥
आपदमस्तकमस्ति सुधारसघनानन्दसदनम् ।
सकृदपि पिबति श्यामरसमेवं तदितरमिह विरसम् ।
मानस! पिब रे श्यामरसम् ॥
-- आचार्य डाॅ जयमन्त मिश्र
Encoded and proofread by samskrit.samvadah at gmail.com