मातृभूमे सदा शक्तिसञ्चारिके
(गीतिका)
मातृभूमे । सदा शक्ति-सञ्चारिके ।
पादपद्मे शुभे ते नति सन्ततम् ।
ज्ञान-ज्योति-प्रसू सौख्य-सञ्चारिणी
दुःख-दावाग्नि-हर्त्री मनोमोहिनी ॥ मातृभूमे०॥
त्वं हि क्रान्ति सदा न्याय-रक्षा-परा
शत्रु-सम्मर्दनी क्रूर-मानापहा ।
ज्ञान-शक्ति-प्रदा उद्यमाधायिनी
शक्ति स्रोत-स्वरुपा सुखाधायिनी ॥ मातृभूमे०॥
पावनं ते रजःसर्व-सौख्याकरं
क्रान्तिदूतैः शिरोभिः सदा धारितम् ।
शक्तिदं शौर्यदं भक्तिदं मुक्तिदं
ज्ञानदं मानदं तापहं पापहम् ॥ मातृभूमे०॥
पावनं ते पयो दुग्ध-धारोपमं
पावनं ते वनं पावना पर्वता ।
पावनी ते सरिद् वृक्षमाला शुभा
पावनं ते समस्त मत सौख्यदम् ॥ मातृभूमे०॥
पावन ते प्रसून सुगन्धावह
पावन क्षेतमेतत् सुसस्यैर्वृत्तम् ।
पावन ते दिन पावनी यामिनी
पावन कन्दमूल फल सौख्यदम् ॥ मातृभूमे०॥
यत्र हैमो गिरिस्ते किरीटप्रभो
नाग-कश्मीर-भूस्ते भुजो समतौ ।
यत्र गङ्गा सदा रक्त-सञ्चारिका
विन्ध्यमाला मता पृष्ठवंशोपमा ॥ मातृभूमे०॥
गुर्जरान्ध्रौ मती यत्र जड्घोपमौ
मध्यदेश ३ कटि सर्वशोभावृत ।
केरलस्तामिल पादरूपी मतो
सागरेणार्चित पादयुग्म शुभम् ॥ मातृभूमे०॥
विश्ववन्द्या सदा त्वं गुणैर्रचिता
ज्ञानज्योति प्रदाऽऽअध्यात्म-सन्देशिका ।
सत्यनिष्ठा सदा सत्यशिक्षापरा ।
सत्यधर्मोदया सर्वधर्मप्रिया ॥ मातृभूमे०॥
विश्वशान्ति सदा ते मतं सम्मतं
विश्ववन्धुत्वशिक्षा सदा ते प्रिया ।
त्वं तु विश्वं कुटुम्बं सदा मन्यसे
ज्ञानदात्री सदा पापहर्त्री मता ॥ मातृभूमे०॥
क्रान्ति-सञ्चारिणी दुष्ट-संहारिणी
सौख्य-सन्धारिणी दुःख-ते हारिणी ।
शक्तिरुपा सदा भक्तिरूपा प्रिया
जीवनं मेऽर्पितं तेऽऽघ्रियुग्मे शुभे ॥ मातुभूमे०॥
Proofread by Mandar Mali