विश्वशक्तिर्मातृशक्तिः
विश्वशक्तिर्मातृशक्तिर्भरत-भूतल-मण्डिता ।
सा प्रणम्या सर्वप्राणैः सर्वसम्पद्-भूमिका ॥ ध्रुवम्॥
कोटिरत्न-प्रसूर्माता भारती खलु भूनुता ।
तामनन्तोत्साह-पूर्णाः नुमोऽनन्तमुदे सदा ॥
नदी भूः स्त्री प्रकृतिशक्तिः गौश्च मातृपदं गताः
सती सीता कालिकाद्याः मातरः खलु पूजिताः ।
सहनया प्रीत्या च शक्त्या मातृ-शक्तिरिहाद्भुता
तया रक्ष्यं सर्वविश्वं गतिर्नान्या सर्वथा ॥
संस्कार-संस्कृति-संस्कृतानि मातृ-गर्भ-समुद्भवानि
तैरेव पूर्णं वर्धनीया भारतीय-परम्परा ।
ततो गेहे ग्रामनगरे भव्यराष्ट्रे भारती
सर्वशक्ता भवति भूयस्ततो विश्वे मङ्गलम् ॥
Encoded and proofread by Rajani Arjun Shankar