मातृस्नेहः
सर्वजीविनां जन्मदायिनीं स्तन्यपायनाद् वृद्धिकारिणीं
स्नेहलालनाद् तोषकारिणीं मातृदेवतां नौमि सादरम् ॥
वृद्धिरागतौ पादयुग्मकौ वृद्धिरागता नासिकेति वा ।
प्रतिदिनं तया चिन्त्यते मुदा तनयपोषणं स्नेहपूर्णया ॥
यदि जिघासया रोदिति सुता चटुलमेत्य सा तोषवर्धिता ॥
निजकरेण सा भोज्यपानकान् अतुलकौतुकं भोजयेच्चिरम्
मातरं सदा वन्दनं कुरु मातरि सदा स्निह्यतु सखे ।
मातृदैवतां दृष्टिगोचरं गणय सादरं साधु दैवतम् ॥
कविता रचना - विजयन् वि. पट्टाम्बी