मातृस्नेहः
माताऽस्ति मामक गेहे
गेहस्य शोभां तनोति ।
मातरं नित्यं प्रणम्य भक्त्या
विद्यालयः मया गम्यः ।
जन्मनः पूर्वं सा साध्वी - मम
सौभाग्यकारणं जातम् ।
पूर्वे वयसि च नित्यं जल-
पानं च भोज्यं च दत्तम् ।
वर्णयुतकं मे वस्त्रं - तया
धारितं सर्वमङ्गेषु ।
क्षीरं मधुरसभोज्यं - तया
पानाय नित्यं प्रदत्तम् ।
पुस्तकं स्यूते निक्षिप्य - मम
हस्ते तया नित्यं दत्तम् ।
मध्याह्नभोजनं पात्रे नित्यं
सस्नेहं मह्यमयच्छम् ।
मामकमाता मे इष्टा - तस्याः
भाषणं श्रोत्रपियूषम् ।
प्रत्यक्षदेवता माता - मया
नित्यं प्रणामश्च कार्यः ॥
कविता रचना - विजयन् वि. पट्टाम्बी