मातः चन्दिर एकाकी
मातः चन्दिर एकाकी कस्मात् गगने सञ्चरति ।
मातरं पितरं गृहं विहाय रात्रौ सततं सञ्चरति ॥
वायुः वेगेन तं नयति सूर्यः किरणैस्तापयति ॥
मेघो जलेन आर्द्रयति न कोपि तं परिपालयति ॥
अम्ब चन्दिरमानयतु अस्मद्गेहे स्थापयतु ।
तेन सहाहं क्रीडामि खादामि पिबामि नन्दामि ॥
मेघो वर्षति
मेघो वर्षति
प्रवहति नीरम् ।
तुष्यति कृषिकः
गच्छति गोष्ठम् ॥
नयति च वृषभं
हलमपि वहति ।
कर्षति क्षेत्रं
वपति च बीजम् ॥
रोहति सस्यं
फलति प्रकामम् ।
भवति समृद्धिः
मनुकुलवृद्धिः ॥
- जि. महाबलेश्वरभट्टः