मूलभूतकर्तव्यानि

मूलभूतकर्तव्यानि

प्रत्येकं भारतीयनागरिकस्य कर्तव्यानि निम्नानुसारं स्युः । (क) संविधान प्रति प्रामाणिकत्वं आदर्शत्वं संस्थानां राष्ट्रध्वजस्य राष्ट्रीयगीतस्य च आदरः । (ख) स्वातन्त्र्याय अस्मदीयराष्ट्रियसत्याग्रहं प्रेरयतां आदर्शानां हृदये प्रतिष्ठापनं अनुसरणं च । (ग) भारतस्य र्सावभौमत्वस्य एकतायाः अखण्डिततायाश्च समर्थनं च । (घ) देशस्य रक्षणं राष्ट्रियसेवायै उद्घोषाणायां जातायां तदनुसरणञ्च । (च) धार्मिक-भाषाकीय-प्रादेशिकेभ्यः धार्मिकेभ्यो वा भेदेभ्यः परं स्थित्वा, समस्त भारतीयेषु साम्मनस्यसमानबन्धत्वभावनायाः वृद्धिः, स्त्रीणां गौरवहानिकारकव्यवहारत्यागश्च । (छ) अस्माकं समन्वितसंस्कृतेः समृद्धदायस्य मूल्यं ज्ञात्वा तदवग्रहः । (ज) वनानां तडागानां नदीनां अन्यवन्यपशुपक्षिसहितं प्राकृतिकपर्यावरणरक्षणं तद्बर्धनं तथैव जीवमात्रं प्रति अनुकम्पाभावः । (झ) वैज्ञानिकमानसाय मानवतावादाय जिज्ञासायै भावनाभिगमाभिबोधः । (ट) सामान्यसम्पत्तिरक्षणं हिंसायाः त्यागश्च । (ठ) राष्ट्रं पुरुषार्थस्य सिद्धेश्च अधिकाधिकमुन्नतसोपानानि प्रति सततं प्रगतिशीलं स्यात्तदर्थं वैयक्तिकसामूहिकप्रवृत्तीनां समस्तक्षेत्रेषु श्रेष्ठत्वं आसादयितुं प्रयत्नः । (ड) मात्रा पित्रा अथवा अभिभावकेन षड्वर्षतः चतुर्दशवर्षं यावत् (६. तः १४.) वयसे बालकाय अथवा पाल्याय शिक्षणलाभाः देयाः । Encoded and proofread by BS
% Text title            : mUlabhUtakartavyAni Main Duties of a Bharatiya
% File name             : mUlabhUtakartavyAni.itx
% itxtitle              : mUlabhUtakartavyAni
% engtitle              : mUlabhUtakartavyAni
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Transliterated by     : BS
% Proofread by          : BS
% Description-comments  : Page 4
% Indexextra            : (Scan)
% Latest update         : June 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org