मच्चित्ते सन्निधिं कुरु
सरस्वति नमस्तुभ्यं सर्वपापविनाशिके ।
शारदे मायिके देवि ! मच्चित्ते सन्निधिं कुरु ॥ १॥
मातृरूपेण भूतेषु सततं संस्थिता हृदि ।
सर्वेषां सौख्यलाभाय देवि तुभ्यं नमो नमः ॥ २॥
पद्मनाभप्रिये देवि पद्मपीठसुसंस्थिते ।
पद्मगन्धेन सम्पन्ने पद्माक्षि ! पाहि मां सदा ॥ ३॥
शुभ्रवस्त्रप्रिये देवि रत्नहारविभूषिते ।
शरच्चन्द्रोज्वले धन्ये चन्द्रिकाधवलप्रभे ॥ ४॥
कमण्डलुमक्षमालाञ्च धारयन्ती करेषु या ।
सा मे चित्ततमः हन्तु सर्वपापानि सर्वदा ॥ ५॥
चलत्पद्मविलोलाक्षि ! विमले विश्वरक्षिके ।
विलोलाक्षियुगे पुण्ये मच्चित्ते सन्निधिं कुरु ॥ ६॥
ब्रह्मणा शङ्करणापि विष्णुना चापि पूजिते ।
सर्वदेवकुलै र्नित्यं पूजिते जगदम्बिके ॥ ७॥
जाड्यापहारिके देवि कष्टसङ्कटनाशिके ।
शिष्टानां जनजालानां रक्षिके शक्तिरुपिणि ॥ ८॥
शिवे च शिवदे देवि शिवचित्तनिवासिनि ।
शिवेतरविनाशाय शैलपुत्रि ! नमो नमः ॥ ९॥
पाहि पाहि सदा पाहि पावनेष्वतिपावने ।
पापान्मां मोचय भद्रे परमानन्ददायिके ॥ १०॥
-- विजयन् वि. पट्टाम्बि