नवमधुमासोऽयम्
सा -
आली सुमनसुवरभृङ्गाली
प्रीतिः नवमृदुमालिनी रे
फुल्लितो नवमधुमासोऽयम्
रागि त्वयि मे मनोऽनुरागि ..
त्वं यद्यपि सविधे नो मे
सूचय किं करणीयं रे ?
सः -
सखि नारी त्वं सुकुमारी
नयने ते खलु असिधारे
वद कथं भवेत् शमनोऽयम् रे जी
वद कथं भवेत् शमनोऽयम् उरसि
प्रज्वालितोऽनलो रे
सा -
आली सुमनसुवरमधुपाली
प्रीतिः नवमृदुमालिनी रे
फुल्लितो नवमधुमासोऽयम्
सा -
बहुवसन्त-ऋतवो मनसि फुल्लिताः सुगन्धिता एवम्
तव सुरेण जाता मुग्धाऽहं रे
तन्न किमपि ज्ञातम्
नूपुरं स्पन्दते हृच्च मे स्फायते
सः -
संचिता प्रीतिः प्रेममग्ने लोचने
आह्वानं तव हृदयस्य
वाद्यम् उरसि प्रणयस्य
आतुरं मनो मीलनार्थम् रे जी
आतुरं मनो मीलनार्थम्
स्वीकुरु सखि प्रेम अधुना
सा
जातम् भुवनं नादमयं मे
लज्जा अवशीभूताऽ रे
सुखं शृङ्गारमयम् अधुना
-- डाॅ श्रीहरि व्ही. गोकर्णकरः
(संस्कृतानुवाद)
युगलगीतम्
मूलः चलचित्रपटः महाराष्ट्र शाहीर
काव्य - गुरु ठाकूर