वाल्मीकिकृतम् महाभारतग्रन्थकवचम्

वाल्मीकिकृतम् महाभारतग्रन्थकवचम्

वाल्मीकिरुवाच । कवचं कथ्यते विप्र भारतस्य श‍ृणुष्व तत् । ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि । नराय परमेशाय जीवाय परमात्मने ॥ १॥ आदिपर्व पातु मूलवीजं पातु द्वितीयकम् । ऋषिर्नारायणः पातु शक्तीरामायणं तथा ॥ २॥ विराटपर्व छन्दश्च देवतार्यास्तवोऽवतु । प्रमाणं भगवद्गीता शक्तिमान् पातु भीष्मकः ॥ ३॥ प्रतिपाद्यं द्रोणपर्व कार्ण पर्वार्थकोऽवतु । निर्णयः शल्यपर्व स्यात् कर्ता पातु गदादिकम् ॥ ४॥ प्रयोजनं शान्तिपर्व स्वरूपमाश्वमेधिकम् । लक्षणञ्चावगम्यञ्च लयश्चान्यान्यवन्तु माम् ॥ ५॥ अव्यादाचरणीयञ्च सर्वाश्चर्यमथोत्तरम् । एतद्वै कवचं धृत्वा कुरु भारतमुत्तमम् ॥ ६॥ भारते फलसिद्धिश्च कवचादप्यतो भवेत् । पठ रामायणं व्यास काव्यवीजं सनातनम् ॥ ७॥ पुराणानाञ्च सर्वेषां क्रम एवंविधो मतः । अष्टादश पुराणानि तत्त्वान्यष्टादशैव तु ॥ ८॥ एवञ्चोपपुराणानि तत्त्वान्यष्टादशैव तु । महापुराणेषु मुने श्रीभागवतमन्ततः ॥ ९॥ बृहद्धर्मपुराणञ्च पुराणेष्वितरेषु च । मुने आचरणीयं स्यात् मूलादीनीतराणि च ॥ १०॥ कुरु सर्वपुराणानि महाभारतमेव च । तेषु तेषु पुराणेषु महाभारत एव च । यत्र रामचरित्रं स्यात् तदहं तत्र शक्तिमान् ॥ ११॥ ब्रह्मणो वचनं व्यास प्रतिपाल्यं करोमि वै । अन्येषान्तु मुनीनां वै ग्रन्थेषु सङ्ग्रही कृती ॥ १२॥ ॥ इति बृहद्धर्मपुराणे त्रिंशत्तमोऽध्याये व्यासमहर्षे वाल्मिकीद्वारा (महा)भारततत्त्वोपदेशः सम्पूर्णः ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ३०। ४१-५२॥
% Text title            : mahAbhAratagranthakavacham Conveyed by Valimiki to Vyasa
% File name             : mahAbhAratagranthakavachamvAlmIkikRRitam.inf.itx
% itxtitle              : mahAbhAratagranthakavacham vAlmIkiproktam (bRihaddharmapurANAntargatam)
% engtitle              : mahAbhAratagranthakavacham vAlmIkiproktam
% Category              : misc, advice, bRihaddharmapurANam
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Valmiki
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 30| 41\-52 ||
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org