महाचक्रवर्तिनामाष्टोत्तरशतस्तोत्रम्
वज्रसत्त्व महावज्र वज्रनाथ सुसाधक ।
वज्राभिषेक वज्राभ वज्रकेतु(तो) नमोऽस्तु ते ॥ १॥
हासवज्र महाधर्म वज्रकोश महावर ।
सर्वमण्डलराजाग्र्य निष्प्रपञ्च नमोऽस्तु ते ॥ २॥
वज्रकर्म महारक्ष चण्डयक्ष महाग्रह ।
वज्रमुष्टि महामुद्र सर्वमुद्र नमोऽस्तु ते ॥ ३॥
बोधिचित्त महाबोधे बुद्ध सर्वतथागत ।
वज्रयान महाज्ञान महायान नमोऽस्तु ते ॥ ४॥
सर्वार्थ सर्वतत्त्वार्थ महासत्त्वार्थ सर्ववित् ।
सर्वज्ञ सर्वकृत् सर्व सर्वदर्शि नमोऽस्तु ते ॥ ५॥
वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् ।
महासमय तत्त्वार्थ महासत्य नमोऽस्तु ते ॥ ६॥
वज्राङ्कुश महाकाम सुरते सुमहाप्रभ ।
वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमोऽस्तु ते ॥ ७॥
वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम ।
वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमोऽस्तु ते ॥ ८॥
वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् ।
वज्रसूक्ष्म महाध्यान वज्रकार्य नमोऽस्तु ते ॥ ९॥
बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध ।
बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमोऽस्तु ते ॥ १०॥
बुद्धपूजा-महापूजा-सत्त्वपूजासुपूजक ।
महोपाय महासिद्धे वज्रसिद्धि नमोऽस्तु ते ॥ ११॥
तथागत महाकाय तथागतसरस्वते ।
तथागतमहाचित्त वज्रचित्त नमोऽस्तु ते ॥ १२॥
बुद्धाधिप जिनाज्ञाकृद् बुद्धमित्र जिनाग्रज ।
महावैरोचन विभो शान्तरौद्र नमोऽस्तु ते ॥ १३॥
तथागतमहातत्त्व भूतकोटे महानय ।
सर्वपारमिताज्ञान परमार्थ नमोऽस्तु ते ॥ १४॥
समन्तभद्र चर्याग्र्य मार मारप्रमदर्क ।
सर्वाग्र्य समताज्ञान सर्वत्रग नमोऽस्तु ते ॥ १५॥
बुद्धहुङ्कर हुङ्कार वज्रहुङ्कर दामक ।
विश्ववज्राड्ग वज्रोग्र वज्रपाणे नमोऽस्तु ते ॥ १६॥
वन्दयः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः ।
यस्माद् वज्रदृढं चित्तं वज्रसत्त्वस्त्वमुच्यसे ॥ १७॥
त्वदधीना हि सम्बोधिः पिता त्वं सर्वदर्शिनाम् ।
सम्भूताः सम्भविष्यन्ति त्वामासाद्य तथागताः ॥ १८॥
अनेन स्तोत्रराजेन यः स्तुयाद्बै सुभक्तितः ।
यो गायंस्तु स्तुयात् सोऽपि भवेद्वज्रधरोपमः ॥ १९॥
अध्येषयामस्त्वां नाथ सर्वबुद्धवशङ्करम् ।
सर्वसत्त्वार्थकार्यार्थमुत्पादय स्वकं कुलम् ॥ २०॥
इति महाचक्रवर्तिनामाष्टोत्तरशताध्येषणास्तोत्रं सम्पूर्णम् ॥