महर्षिमहिमा
कीर्त्ति-कौमुदीयं भुवने सर्वत्र सदा तनुते ॥
हे महर्षे! ॥
त्वं वेदार्थ-प्रकाशयिता सत्यार्थं विस्तारयिता,
तव सत्यार्थ-प्रकाशो ग्रन्थो ज्ञानद्वारमुद्घाटयिता ।
जनता कल्याणपथे याती जयशब्दं ते कुरुते ॥ १॥
हे महर्षे! ॥
वैदिकधर्म ख्यापयता शास्त्रार्थं सञ्चारयता,
प्रतिमापूजा वेदविरुद्धा घोषः सम्प्रति कृतस्त्वया ।
पाखण्ड-खण्डिनी ध्वजा सदा गगने कथमुड्डयते ॥ २॥
हे महर्षे! ॥
भारतवर्षमिदं गुरुणा बोधपथेन विहारयता,
पठितव्या प्रत्येकजनेन संस्कृतवागिति ख्यापयता ।
आर्याणां एष समाजस्त्वां बहुवारं स्मरयते ॥ ३॥
हे महर्षे! ॥
--- प्रशस्यमित्रशास्त्री