मम भाषा संस्कृतम्
मम भाषा संस्कृतं संस्कृतेश्च वर्धकम् ।
सर्वचित्तहारकं सर्वलोकरञ्जकम् ॥ १॥
मम भाषा संस्कृतं सुन्दरं सनातनम् ।
काव्यशास्त्ररक्षकं चात्मतत्त्वभासकम् ॥ २॥
मम भाषा संस्कृतं शास्त्रतत्त्वगुम्फितम् ।
जीवनप्रदायकं जीवनाय चोदकम् ॥ ३॥
मम भाषा संस्कृतं तत्त्वशास्त्रावेदकम् ।
भक्तिमार्गदर्शकं सर्वदुःखहारकम् ॥ ४॥
मम भाषा संस्कृतं सर्वलोकदीपकम् ।
भानुतुल्यभासकं भामिनीव रञ्जकम् ॥ ५॥
मम भाषा संस्कृतं कण्ठशुद्धिवर्धकम् ।
वेदशास्त्रबोधकं वेदितव्यसञ्जितम् ॥ ६॥
मम भाषा संस्कृतं भाषणं करोम्यहम् ।
मातृकल्पभाविनं तं भजे निरन्तरम् ॥ ७॥
-- संस्कृतदिनगीतम् - विजयन् वि। पट्टाम्बि