रचयन्ति काञ्चन-शकुन्तास्स्वं
(``जहाँ डाल डाल पर'' हिन्दी चित्रपटगीतस्य संस्कृतानुवादः)
रचयन्ति काञ्चन-शकुन्तास्स्वं प्रतिशाखं यत्र कुलायम्,
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ।
अपि सत्यमहिंसा धर्म आस्पदं दधते प्रतिपद-मेयम् ।
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥
(जय भारति ! जय भारति ! जय भारति ! जय भारति !) ॥ ध्रुवपदम्॥
इयमवनी सा ऋषि-मुनि-व्रजो मालां जपतीश्वर-नाम्नः,
(हरि ॐ, हरि ॐ, हरि ॐ, हरि ॐ) ।
बालोऽस्ति मोहनः प्रत्येकम्, बाला राधा यद्-धाम्नः ।
बाला राधा यद्-धाम्नः ।
सर्वादौ कुरुते रविरावर्त्तम्, यत्रागतः स्वकीयम् ।
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ १॥
गङ्गा यमुना प्रवहन्ति यत्र वै कृष्णा-सह-कावेरी,
या उत्तर-दक्षिण-पूर्व-पश्चिमान् पाययन्ति सुधा-वारि ।
पाययन्ति सुधा-वारि ।
फल-पुष्पाणीदं क्वचित् प्रसूते, तनुते केसर-कायम् ।
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ २॥
वैचित्र्यमयी-धरणेरस्याः पर्वाण्यपि विचित्र-भासः,
क्वचित् प्रदीप्ति-र्दीपावल्याः होली-वर्ण-विलासः ।
होली-वर्ण-विलासः ।
इह राग-रङ्गयो-र्हास्य-मुदानां चतुर्दिशं प्राचुर्यम् ।
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ ३॥
यस्मिन् शिवालया मन्दिर-माला गगनं सम्भाषन्ते,
पुनः क्वचिद् वा नगरे द्वारे तालं कोऽपि न दत्ते ।
तालं कोऽपि न दत्ते ।
आयातः प्रेम्णो निनाद्य वेणुम्, उभे प्रभातं सायम् ।
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥ ४॥
रचयन्ति काञ्चन-शकुन्तास्स्वं प्रतिशाखं यत्र कुलायम्,
मम भारत-देशः सोऽयम्, मम भारत-देशः सोऽयम् ॥
(जय भारति ! जय भारति ! जय भारति ! जय भारति !)
मूल-हिन्दी-गीतम् - जहाँ डाल-डाल पर सोने की चिड़ियाँ करती हैं बसेरा
चलचित्रम् - सिकंदर-ए-आज़म (१९६५)
गीतकारः - राजेन्द्र-कृष्णः
सङ्गीतकारः - हंसराज-बहलः गायकः - मोहम्मद-रफी
मूलस्वरानुकूल-संस्कृतानुवादकः - डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher