मम देशो भारतं मम भाषा संस्कृतम्
मम देशो भारतं मम भाषा संस्कृतम् ।
जन्मभूमिरस्माकं भारतं भारतम् ॥ ध्रु॥
जननीयं वाङ्मयस्य संस्कृतं संस्कृतम् ।
अनाद्यनन्त विश्वविहित शौर्य धैर्य किर्तीसहित -
भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ १॥
पुण्यभूमिरस्माकं भारतं भारतम् ।
करणेन सर्वधर्म संस्कृता संस्कृता ।
हिन्दु ख्रिस्त सीख मुस्लिम जातिमतविभागरहित -
भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ २॥
वेदभूमिरस्माकं भारतं भारतम् ।
सर्वजनसमैक्य भावबन्धुरं भारतम् ।
सत्यधर्मस्नेहशान्ति विश्वबन्धुभावभरित -
भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ ३॥
Encoded and proofread by Manish Gavkar manishyg at gmail.com