मम देवाः
मातापितरौ गुरवो ज्येष्ठाः
देवाः खलु तान् प्रणमामः ।
अतिथिर्बन्धुः सकलो लोकः
श्रद्धेयास्तान् प्रणमामः ॥
सूर्यश्चन्द्रस्तारा गगनं
वन्द्याः ननु तान् प्रणमामः ।
धेनुर्वृषभः खगाश्च पशवः
उपकर्तॄन् तान् प्रणमामः ॥
जननीं भूमिं भारतदेशं
भक्त्या वयं नु प्रणमामः ।
गिरीन् तरूनपि नदीश्च कूपान्
प्रभातकाले प्रणमामः ॥
अनिलजलादीन् अनलतृणादीन्
सर्वान् मनसा प्रणमामः ।
वाग्देवीं तां ज्ञानदायिनीं
प्रयता नियतं प्रणमामः ॥
--डाॅ जनार्दन हेगडे