वन्दे मातृभाषाम्
मम रसना ते रसना सुलभतया
वदतीह मनोहरभाषां देवभाषाम्
श्रुतिमधुरां सुखलयवाणीं सकलानां
भाषाजननीं वन्दे मातृभाषाम् ।
वेदे लोके कविहृदये फुल्लितया
संस्कृतवाण्या गीतं गानं मोदसमेतम्
एहि गायामः
गीतं गानं मोदसमेतम्
एहि गायामः ।
श्रुणु तावत् हृदयेन सदा वीणानादं
तं वीणानादम् ।
कविमनसा क्रौञ्चे विगते रचितमहाकाव्यं
गीतं यस्मिन् लीनं लीनम् ।
आदिमकाव्यं पूर्वं मुनिवरकलितम्
आविश्वं तेनैवं गैर्वाचो
ननु पूज्यन्ते राजन्ते श्रूयन्ते ।
मम रसना ते रसना सुलभतया
वदतीह मनोहरभाषां देवभाषाम्
ग्रामे नगरे श्वासे श्वासे सुरवाणी
ओ सुरवाणी
जनभाषा नायकभाषा लोकहिता
ज्ञानसुधागङ्गा... वाचां माता ...
संस्क्ऱितभाषा सत्यं नित्यनवीना ...
शास्त्रपरा भारतमुकुटा भाविधरित्री
सा सानन्दं सर्वैः भाष्येत ।
मम रसना ते रसना सुलभतया
वदतीह मनोहरभाषां देवभाषाम्
श्रुतिमधुरां सुखलयवाणीं सकलानां
भाषाजननीं वन्दे मातृभाषाम् ।
वेदे लोके कविहृदये फुल्लितया
संस्कृतवाण्या गीतं गानं मोदसमेतम्
एहि गायामः
गीतं गानं मोदसमेतम्
एहि गायामः ।
Composed by Dr. Nidheesh Gopi