मनसा सततं स्मरणीयम्
मनसा सततं स्मरणीयं
वचसा सततं वदनीयं
लोकहितं मम करणीयम् ॥ लोकहितम् ॥
न भोगभवने रमणीयं
न च सुखशयने शयनीयम् ।
अहर्निशं जागरणीयं
लोकहितं मम करणीयम् ॥ १॥
न जातु दुःखं गणनीयं
न च निजसौख्यं मननीयम् ।
कार्यक्षेत्रे त्वरणीयं
लोकहितं मम करणीयम् ॥ २॥
दुःखसागरे तरणीयं
कष्टपर्वते चरणीयम् ।
विपत्तिविपिने भ्रमणीयं
लोकहितं मम करणीयम् ॥ ३॥
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयं
लोकहितं मम करणीयम् ॥ ४॥
- डाॅ श्रीधर भास्कर वर्णेकर
Encoded and proofread by Shubha shubhazero at gmail.com