मङ्गलाष्टकम् ६
मञ्जुश्रीर्लोकनाथो जिनवरमकुटो जम्भलो वज्रसत्त्वः
मैत्रेयो वज्रपाणिः सुखकरकमलो राहुलो भद्रपालः ।
बुद्धो वैरोचनाद्यस्त्रिभुवननमितः क्षीणनिःशेषदोष-
स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ १॥
हृष्टो हूङ्कारवज्रः पशुपतिदमको वज्रघण्टा च हृष्टा
पीतो हालाहलास्यो रिपुगणमथनो टक्किराजो महात्मा ।
अक्षोभ्यो रत्नकेतुः प्रतिदिनमचलो गण्डहस्तिर्यमारि-
स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ २॥
सङ्घस्त्रैलोक्यबन्धुर्गुणगणनिलयो बोधिचित्तः सुचित्तः
बोधिश्चानन्दसिद्धो विजितकलिमलो हेरुको नीलदण्डः ।
बुद्धः सारङ्गराजो विजितजिनगुणो सर्वसत्त्वानुकम्पी
तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ ३॥
प्रज्ञा चन्द्रावतारा तदनुजभृकुटी ज्ञानसम्भारभारा
मारीची मारमारा सकलभयहरा पीतवर्णा त्रिवक्त्रा ।
मायूरी मामकी च क्षपितरिपुगणा पाण्डरा रोचनाद्या-
स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ ४॥
गान्धारी जाङ्गुली च भुजगहृतफणा खड्गपाशाङ्कुशोग्रा
वाराही वज्रहस्ता असिपरशुधरा धर्मधात्वीश्वरी च ।
केयूरी ज्ञानसारा ध्वजनिहितकरा षट्करा शाबरी च
तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ ५॥
वैण्या माल्या सुगीता प्रथितजिनवरे शाबरी धूपवज्रा
वैताली गन्धवज्रा प्रहसितवदना स्वर्गतिरार्यतारा ।
लक्ष्मीर्बुद्धस्य बोधिः सकलभयहरा शारदा दीपवज्रा
तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ ६॥
वैशाल्यां धर्मचक्रे प्रथितनिजबले पर्वते गृध्रकूटे
श्रावस्त्यां लुम्बिनीके क्षितिनिहितकरा कोङ्कणे बोधिवृक्षा ।
श्रीवत्साश्वत्थपत्रं सुरवरनमितं श्रीफलं शङ्खचक्रं
तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ ७॥
छत्रं दूर्वा च पद्मं ध्वजमपि निहितं लो(रो)चना मत्स्यकूर्मौ
वाराहः पूर्णकुम्भो मुनिवरवचनं वज्रघण्टानिनादः ।
बुद्धानां प्रातिहार्यं सुरवरनमितं हास्यलास्ये विलासा-
स्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः ॥ ८॥
इति मङ्गलाष्टकं सम्पूर्णम् ॥