मन्त्रभजनादिनिरूपणम्
अर्थं कामं चेहमानाः प्रजा ह्रासं व्रजन्त्यपि ।
तत्र मन्त्रं जपेन्मे च गायत्र्याख्यं निरन्तरम् ॥ १००॥
``ॐ भूर्भुवः स्वः, श्रीघनश्यामाय विद्महे ।
नीलकण्ठाय धीमहि, तन्नो हरिः प्रचोदयात्'' ॥ १०१॥
``ॐ भूर्भुवः स्वः, श्रीबालकृष्णाय विद्महे ।
अनादिकृष्णाय धीमहि, तन्नः कृष्णः प्रचोदयात्'' ॥ १०२॥
``ॐ भूर्भुवः स्वः, श्रीनाराणाय विद्महे ।
वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्'' ॥ १०३॥
``ॐ श्रीब्रह्मप्रियावल्लभाय स्वाहा नमः'' जपेत् ।
``ॐश्रीहरिप्रियावल्लभाय नमः'' जपेत् तथा ॥ १०४॥
षट्लक्षजपकर्ता वै तरत्येव भवार्णवात् ।
द्वापरे मन्त्रमेनं वै ततो जपेत् प्रमुक्तये ॥ १०५॥
``अनादिश्रीकृष्णनारायण कृष्ण श्रियःपते ।
राधापते परब्रह्म गोपीपते जयापते ॥ १०६॥
ललिताश्रीपते प्रज्ञापते पद्मावतीपते ।
सुखदाश्रीपते लक्ष्मीपते श्रीमाणिकीपते ॥ १०७॥
हंसगरुडवारणतुरगाधिपते प्रभो ।
सताम्पते सतीसाध्वीपते सर्वपते विभो ॥ १०८॥
भगवन् पुण्डरीकाक्ष तारयाऽस्मान् भवार्णवात् ।
द्वापराद्घोररूपाद्वै चान्तिमसमयात्मकात्'' ॥ १०९॥
इत्यर्थयेद्भगवन्तं परमेशं सनातनम् ।
पूजयेन्मां धारयेच्च हृदये मयि चार्पयेत् ॥ ११०॥
एवं मोक्षं द्वापरेऽन्ते चाप्नुयुर्मानवा रमे ।
पठनाच्छ्रवणाच्चापि संहिताया ममापि च ॥ १११॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१४२-अध्यायान्तर्गतं द्वापरयुगे धर्मार्थादिमोक्षप्राप्त्यर्थं
मन्त्रभजनादिनिरूपणं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १४३/१००-१११॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 143/100-111..
Proofread by PSA Easwaran