मुम्बापुरीविश्वविद्यालयगीतम्
इदं सुन्दरं मन्दिरं शारदाया
मुम्बापुरीविश्वविद्यालयम् ।
कलाशास्त्रवाणिज्यशाखाधिरूढा
अमूढा विमुक्ता विहङ्गा वयम् ॥ १॥
शृण्वन्तु सर्वे दृढ निश्चयम् ॥ धृ ॥
सत्यं वदामो धर्मं चरामो
नयामो नृणां दुःखभारं लयम् ।
स्वकार्ये रतानां सदा जागृतानां
भवेत्किं भविष्येऽपि कस्मात् भयम् ॥ २॥
शृण्वन्तु सर्वे दृढ निश्चयम् ।
युवा स्यात् बलिष्ठो युवा स्यात् गरिष्ठो
युवा ध्येयनिष्ठोऽपि भूयात् स्वयम् ।
यदि स्यात् युवा राष्ट्रकर्तव्यनिष्ठः
सम्मानयेत् तं हि लोकत्रयम् ॥ ३॥
शृण्वन्तु सर्वे दृढ निश्चयम् ।
वन्दामहे भारतं पूजनीयं
स्वदेशात् परं नास्ति देवालयम् ।
अत्रैव सर्वे प्रतिष्ठापयामो
ममत्वेन सार्धं समत्वं नयम् ॥ ४॥
शृण्वन्तु सर्वे दृढ निश्चयम् ।
कवी - श्री। वसन्त बापट
सङ्गीत - श्री। प्रभाकर पण्डित
Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com