नारायणप्रोक्तं श्राद्धानन्तरं करणीयं शान्तिपाठम्
श्राद्धादेः कर्मणश्चान्ते शान्तिपाठं प्रकारयेत् ।
राधेशाय रमेशाय लक्ष्मीशाय च ते नमः ॥ १४२॥
माणिकीशाय पार्वतीश्वराय व्यापिने नमः ।
प्रभेशायाऽनादिकृष्णनारायणाय ते नमः ॥ १४३॥
दिशः पश्य त्वधः पश्य व्याधिभ्यो रक्ष नित्यशः ।
प्रसीद स्वस्य राष्ट्रस्य राज्ञः सर्वबलस्य च ॥ १४४॥
गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा ।
ब्राह्मणानां च साधूनां शान्तिं कुरु शुभं कुरु ॥ १४१॥
अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं कुरु ।
विभो! प्रवर्धतां राष्ट्रं शान्तिर्भवतु नित्यशः ॥ १४६॥
देवानां मनुजानां च भक्तानां कन्यकासु च ।
पशूनां सर्वभूतानां शान्तिर्भवतु नित्यशः ॥ १४७॥
एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत् ।
सर्पिर्मधुदधीन्येव समे पात्रे ह्युदुम्बरे ॥ १४८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३२६-अध्यायान्तर्गतं
नारायणप्रोक्तं श्राद्धानन्तरं करणीयं शान्तिपाठं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३२६/१४२-१४८॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 326/142-148..
Proofread by PSA Easwaran