नीतिरत्नम्

नीतिरत्नम्

चतुर्मुखमुखाम्भोजश‍ृङ्गाटकविहारिणीम् । नित्यप्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ॥ १॥ इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ २॥ संसारविषवृक्षस्य द्वे फले अमृतोपमे । काव्यामृतरसास्वाद आलापः सज्जनैःसह ॥ ३॥ पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ ४॥ पुरो रेवापारे गिरिरतिदुरारोहशिखरो धनुर्बाणैः पश्चात् सवरकवरो धावति मृगम् । सरः सव्येऽसव्ये दवदहनदाहव्यतिकरो न गन्तुं न स्थातुं हरिणशिशुरेवं विलपति ॥ ५॥ छेदश्चन्दनचूतचम्पकवने रक्षा करीरद्रुमे हिंसा हंसमयूरकोकिलकुले काकेषु लीलारतिः । मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयो- रेषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ६॥ भिनत्ति भीमं करिराजकुम्भं विभर्ति वेगं पवनादतीव । करोति वासं गिरिगह्वरेषु तथापि सिंहः पशुरेव नान्यः ॥ ७॥ काकस्य चञ्चुर्यदि स्वर्णयुक्ता माणिक्ययुक्तौचरणौच तस्य । एकैकपक्षे गजराजमुक्ता तथापि काको न च राजहंसः ॥ ८॥ दिव्यं चूतरसं पीत्वा न गर्वं याति कोकिलः । पीत्वा कर्दमपानीयं भेको मकमकायते ॥ ९॥ अगाधजलसञ्चारी न गर्वं याति रोहितः । अङ्गुष्ठोदकमात्रेण सफरी फर्फरायते ॥ १०॥ भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे । दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥ ११॥ मणिर्लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः ॥ १२॥ काकः कृष्णः पिकः कृष्णस्त्वभेदः पिककाकयोः । वसन्ते समुपायाते काकः काकः पिकः पिकः ॥ १३॥ वरं वने व्याघ्रगजेन्द्रसेवितं द्रुमालयं पञ्चफलाम्बुभोजनम् । तृणानि शय्या वसनञ्च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ १४॥ साध्वीस्त्रीणां दयितविरहे मानिनां मानभङ्गे सल्लोकानामपि जनरवे निग्रहे पण्डितानाम् । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे भृत्याभावे भवति मरणं किन्तु सम्भावितानाम् ॥ १५॥ इति श्रीमहाकविवररुचिविरचितं नीतिरत्नं सम्पूर्णम् ॥ Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran
% Text title            : Nitiratnam
% File name             : nItiratnam.itx
% itxtitle              : nItiratnam (mahAkavivararuchivirachitam)
% engtitle              : nItiratnam
% Category              : misc, subhaashita, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : mahAkavi vararuchi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Seshadri N, PSA Easwaran
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scans 1, 2)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org