नृसिंहवाटिकास्थशुक्लाद्यष्टतीर्थस्तोत्रम्
%७४
ब्रह्महत्याहरं तीर्थं कृष्णा पश्चिमवाहिनी ।
यत्र तत्रैव शुक्लाख्यं स्नानाच्छुक्लीकरोति यत् ॥ १॥
ततोऽग्रतः पापविनाशि काम्यतीर्थं वरोदुम्बरसन्निधौ च ।
सिद्धाख्र्यतीर्थं वरदं तथैवामरेश्वरस्यामरतीर्थमग्रे ॥ २॥
स्यात्कोटितीर्थं त्वथ शक्तितीर्थं प्रयागतीर्थं च ततस्ततोऽग्रे ।
षट्कूल एतानि परप्रतीरे महाष्टतीर्थानि महाघहृन्ति ॥ ३॥
न ब्रह्महत्यादिमहाघसङ्घो यद्दर्शनादेव निमेषमात्रम् ।
स्थास्यत्यशेषाघहराष्टतीर्थस्नानादिपुण्यं किमु वाच्यमत्र ॥ ४॥
नमोऽस्तु तीर्थाष्टक ते म आशु श्रीपादपादेक्षणविघ्नकारि ।
निवार्य पापं त्रिविधं समस्तं विज्ञानपात्रं कुरु मामिहैव ॥ ५॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं शुक्लाद्यष्टतीर्थस्तोत्रं सम्पूर्णम् ।