नरसिंहवाटिकावर्णनम्
%७५
मङ्गलायतन तेऽस्तु मङ्गला मङ्गलाय तनुरात्तमङ्गला ।
मङ्गलायतनसर्वमङ्गलामङ्गला यत इनाः सुमङ्गलाः ॥ १॥
पांसुलं व्याप्तलोकं सद्विक्रमत्रातपांसुलम् ।
भद्रदं पदमेतत्ते मम भूयादभद्रदम् ॥ २॥
अग्रजन्मासि भूतेश विश्वभून्मानवोऽप्यहम् ।
अग्रजन्मास्यतो भूयाद्ब्रह्मसम्बन्ध आवयोः ॥ ३॥
नरसिंह इहाद्वैतनरसिंहः प्रभुर्यतिः ।
कृष्णापञ्चनदीयोगे तृष्णाहारी कलौ युगे ॥ ४॥
धन्या वदान्याश्रितसारतीरा मान्याऽस्तदैन्याऽमृतसारनीरा ।
कृष्णा वितृष्णान्हि विधाय भक्तान्पुष्णाति कृष्णाच्युतमूर्तिरेषा ॥ ५॥
मन्येऽत्र धन्येयमनन्तमूर्तिः स्वस्पर्शनालोकनकीर्तनाद्यैः ।
दीनानिमान्पावयितुं स्वभक्तान्कृष्णाऽत्र कृष्णाभिधनिम्नगाऽभत् ॥ ६॥
यदात्मनोः प्रत्ययभेदभिन्नमेकप्रकृत्योः प्रथितं स्वरूपम् ।
हरिर्हरो दर्शयितुं ह्यभिन्नं गतौ द्विनद्यैक्यमियं तु कृष्क्तैम् ॥ ७॥
अष्टाङ्गयोगसिद्धिः कष्टा मिष्टाशिनां कलौ स्पष्टा ।
तत्सिद्धिदानि तीर्थान्यष्टातोऽसौ दधौ स्वभक्तेष्टा ॥ ८॥
(गद्यम्)भगवती श्रीकृष्णेयमेव
भगवच्चरणावनेजनशोभनजीवनोत्तम-
कलेवरामरेश्वराधिष्ठितप्रतीरामरपुरसंयोगपरमरुचिराभितः
प्रचुरसुन्दर-
मन्दिरालङ्कृतामितामरभूरुहमण्डितासादितमनोहरनिर्जरापरामरनिम्नगेव
बभौ ॥ ९॥
वा किल स्वीयजीवनचिन्तनकीर्तनदर्शनस्पर्शनसेवनादिना
पवित्रीकृतबाह्याभ्यन्तरात्मन उच्चावचस्वभक्तानज्ञानतः स्वलोकं
प्रापयितुमुद्युक्तान्याम्यान्दूतान्निवारयितुं तद्दिशं जिगमिषतीव ॥ १०॥
सह्याद्रिकन्येयमसह्यवीर्या सुधाधिकस्वादुरसा पवित्रा ।
स्निग्धातिमुग्धा महिषी वृषैः कैर्जानेऽभवत्प्राग्लवणाम्बुधेर्नो ॥ ११॥
तस्यस्तटे श्रीभगवान्नृसिंहसरस्वती तत्र पवित्र देशे ।
तिष्ठत्यजस्रं खलु तन्निवासः स्वर्वासिवासाधिसुखं तनोति ॥ १२॥
नद्याः सकाशाद्विपुलाचलामला रेजेऽत्र सोपानपरम्परा वरा ।
रौद्रप्रयत्नै रचिताश्वमेधसत्पङ्क्तिर्ययैन्द्रं पदमारुरुक्षुभिः ॥ १३॥
यत्र ब्रह्मानन्दसंज्ञा मठास्ते दातुं ब्रह्मानन्दहीनामरेभ्यः ।
ब्रह्मानन्दं केवलं सत्कृपातो गच्छन्तीवोर्ध्वं सतां तद्धि युक्तम् ॥ १४॥
(गद्यम्)सर्वदा खिल जागरूकाखिलवरदामरनिकरकल्पतरु-
वरजाह्नव्यन्नपूर्णाद्यलङ्कृतेऽस्मिन्सुगमापावृतकान्तपथे
दैन्यपापतापा एवालब्धमार्गा अन्तः प्रवेष्टुं नो इतर इत्येतदेवात्र
वैषम्यं व्यालोकि ॥ १५॥
अत्र त्वखिला अपि भूसुराः अज्ञानध्वान्तध्वंसना इना इव,
भवतापहराश्चन्द्रा इव, भौमा अपि सर्वमङ्गला इव, बुधा अपि
निसर्गसौम्या इव, सुभषितभूषिताः सर्वगुरवो गुरव इव, वशकाव्याः
कवयः कवय इवातिपीनस्तनजघन- ललनामण्डलाक्रमणमन्दा मन्दा
इव स्थिता अत एवैकैकग्रहमण्डितं ग्रहमण्डलं स्फीताभ्यसूयं
स्वस्थमप्यस्वस्थमिवालक्ष्यते ॥ १६॥
सार्थको नाकलोकोऽयं नाकवार्तः परस्य तु ।
नाकसंज्ञैव यत्रास्ते स्पर्धासूयात्ययादिकम् ॥ १७॥
यत्र स्मरस्मेरनराः सुरा इव प्रीताः स्थिताः सेवितकामितामृताः ॥
सङ्गीतयुक्ते सुधियः स्वया स्त्रियः साध्व्योऽपि सच्छीलजितामृताङ्गनाः ॥
यत्रायमात्मा सुखसच्चिदात्मा सन्दृश्यतेऽज शतसूर्यतेजाः ।
सत्त्वप्रधाने हृदि सावधाने ब्रह्मेव भिक्षोः श्रुतिभिस्तितिक्षोः ॥ १९॥
देवोऽमरः सहस्राक्षः परितो निर्जरैर्वृतः ।
त्रिलोकार्चितपादाब्जो मघवेवापरोऽस्त्ययम् ॥ २०॥
धर्मराजो दण्डधरः समवर्ती यमेश्वरः ।
सर्वदा ज्ञातदेवात्मा जयत्यत्रापरो यमः ॥ २१॥
पश्यन्सत्यानृते कर्मयन्त्रितानां नृणां स्फुटम् ।
नारायणोऽयं जयति प्रचेता इव पात्रधृक् ॥ २२॥
मनुष्यधर्मा देवोऽपि श्रीदः पुण्यजनेश्वरः ।
राजराजो जयत्यत्र नरवाह इवापरः ॥ २३॥
मालाकमण्डलुधरो विभुर्वेदपरायणः ।
सदानन्दो गतच्छन्दो ब्रह्मेवात्र तपस्थितः ॥ २४॥
नारायण इवाशेषसेतुहेतुरयं हरिः ।
विश्वरूपो हतखलः सदा भक्तमतानुगः ॥ २५॥
मृत्युञ्जयोऽमृतमयः शङ्करस्त्रिपुरान्तकः ।
सर्वज्ञो जितकामोऽयं वशी शम्भुरिवापरः ॥ २६॥
सृष्ट्वात्मेदं प्रविश्यान्तर्मायया क्रीडतीह सः ।
पदाभ्यामेव पाति स्वान्प्रज्ञानब्रह्मवाचकः ॥ २७॥
पादपत्वं स्वार्थसिद्ध्यै द्रुमाणामितरे विदुः ।
पादपत्वं स्वर्थसिद्ध्यै सत्पतेर्नेतरे विदुः ॥ २८॥
(गद्यम्) स एव परमकारुणिको भगवान् जगद्गुरुः केवलयुक्त्या मुक्त्या इह
हि परस्परं विवदतामसतां शास्त्रिणां मतानि निराकुर्वन् स्वभक्तानां
विमलदृष्ट्यैव स्वपदपर्यालोचनान्मुक्तिरिति श्रुतितात्पर्यमुपदेष्टुमिव
सच्चिदानन्दं पदमिह प्रकटीकार ॥ २९॥
परमात्मन इवास्य श्रीगुरोः, प्रबोधमय इव
शिबिकोत्सवसमये, विशुद्धज्ञानदीपैरिव प्रदीपैः
प्रकाशिते सत्त्वप्रधानान्तर इव शिबिकान्तर उपविष्टं
स्वप्रकाशापरोक्षात्मानमिव सर्वात्मानं षड्विधलिङ्गतात्पर्या-
वधारणरूपश्रवणमनननिदिध्यासनसमाधिक्रमगतचरमवृत्त्येव
केवलामलदृ ष्ट्यापरोक्षीकुर्वन्त इव पश्यन्तो, यतय इव
उच्चावचजन्तवो विस्मृतबाह्याभ्यन्तरव्यवहाराः सन्तो ब्राह्मी
स्थितिमिव परमानन्दस्थितिं प्राप्नुवन्त्यहो महदाश्चर्यमिदम् ॥ ३०॥
समाधेस्ते पराकाष्ठां प्रापुध्र्येयैकगोचराः ॥ ३१॥
पेशलैः कापिलालापैः किं शेषाशेषभाषितैः ।
किं चान्यैर्मन्य एवैका तारिका वाटिका हरेः ॥ ३२॥
(गद्यम्) भगवत्पददिदृक्षया
परमवाटिगमान्नित्यानित्यवस्तुविवेकस्तत्र
यदृच्छयाप्तमाधुकरान्नसेवनादिहामुत्रार्थफलभोग-
विरागस्त्रिषवणमघहरणकाष्र्णों
णोनिषेवणाच्छमादिसम्पत्
सपन्नजनसेवितकान्तानन्तायतनालोकना-न्मुमुक्षुत्वं
नारायणार्हणप्रेक्षणात्परोक्षज्ञानमज्ञानध्वान्तध्वंसनजनार्दन-
पदालोकनमपरोक्षज्ञानमिति किमतः परं परं साधनम् ॥ ३३॥
अध्वैष यदिदं कार्यं कार्यं सत्पददर्शनम् ।
विमनोवासनस्तज्ज्ञो न प्रमाद्येदतोऽनिशम् ॥ ३४॥
कन्दर्पदर्पदलिताललिताङ्गनाङ्गसम्बन्धबन्धनवशा अवशास्तु आपुः ॥
नेदं पदं परमया रमयापि येन्धास्ते हन्त हन्त
कुधिया विधियान्त्यधोधः ॥
लुलल्लालं लीलाललितललनालोललपनं
क्व कीलालेट्बालो ललदमललीलोलितिलकः ॥
क्व लोलालिप्रालिर्ललितकलिभालः क्व मललं
बिलं लोलन्मूत्रं क्व कनकघटौ मांसलकुचौ ॥ ३७॥
(गद्यम्)अहह मूर्खप्रतारणेयं पश्य पश्य सरन्ध्रघटकल्पं
सङ्घाणपिञ्जूषादिलिप्तं श्लेष्मलमलङ्काराद्यानीतशोभं मलीमसं
लपनं निष्कलङ्ककलानिधिरिति, मांसलौ मुक्तावल्यादिरञ्जितौ
स्तनगोलौ स्वर्णकलशाविति, चर्मशकलं द्विधा भिन्नं
गलन्मूत्रमपानोद्गारधूपितममूल्य चैलतिरोहितं कृमिकुलस्थलकल्पं
गलन्मदकरिगण्डस्थलमिति, हिंस्रवञ्चनार्थं त्वगावृता
रक्तमांसास्थिघटितात्यमङ्गला, मङ्गलमात्रपवित्रा ममताहन्तावृता
स्वपरमूर्तिरियमासेचनककनक-मूर्तिरिति, भ्रान्त्यैवपश्यन्त एतान्
भ्रष्टपथानसतो धिग्धिगहो हर हर हरिमायेयं किल ज्ञानिनामपि
चेच्छतीति महर्षिवाक्याय शतशो नमो नमः ॥ ३८॥
त्यक्तानित्याशुचिदुःखमयोभयलोकभोगसाधनसङ्गा
दुस्तरैषणापारगा परावृतखरतरासुरस्मरशरविसरवर्गा
भगवद्दर्शनमात्रकामाश्रितवाटिकायोगा अश्रान्तमाप्तभगवत्पादाभोगा
उदितपरमार्थभागा निःसङ्गा अमी नरसिंहवाटिकास्थिताः सर्वेऽपि
नरसिंहयतिकृपाप्रसादेनैव कृतकृत्याः स्युः ॥ ३९॥
प्रेतेस्ति नास्तीति यथास्य संशयस्तथा यदन्तस्य च निर्गुणाद्गतैः ।
तद्भ्रूशरासाद्धि कटाक्षमार्गणैर्विद्धा न चाद्धा यतयो नमोऽस्तु वः ॥ ४०॥
धन्या हि सन्न्यासिन एव यद्दृग्वर्माण एतैरसुरैर्न विद्धाः ।
विद्धा हरीशाजमुखाः किलैतैः पुनर्मृतप्रायनृणां कथा का ॥ ४१॥
तस्मान्न चास्मात्प्रपदाच्छरण्यान्न कायनं नास्य शरण्यमीश ।
नियोजयानेन पदा सदा मां तवान्तिकस्थेन सुदुर्लभेन ॥ ४२॥
कृष्णावेणीककुद्मत्यः प्रपञ्चोपशमान्तिके ।
अखण्डैकरसा ऐक्यात्परात्मानात्मवच्छिवाः ॥ ४३॥
यज्ञाङ्ग आगमस्तत्र सदा सेव्यो द्विजातिभिः ।
अन्तरप्राकृतैः पूर्णो बहिश्च प्राकृतैः फलैः ॥ ४४॥
सेव्योऽयमागमो नित्यमर्थहीनैर्द्विजातिभिः ।
सार्थैस्तु ब्राह्मणैः सेव्यं तद्विष्णोः परमं पदम् ॥ ४५॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
श्रीमन्नृसिंहवाटिकाक्षेत्रवर्णनं सम्पूर्णम् ।