नववर्षगीतम्
नववर्षं सामोदं भुवनं मे प्राप्तं
शान्तमिदं चित्तं तु सन्तोषपूर्णम् ।
नानाजनततिभरितो मामकदेशो
मधुभरितकुसुमयुतमतुलमुद्यानम् ॥ १॥
हेऐन्दव क्रैस्तव जनततिरिह नित्यं
सन्तोषभावेन वसति चिरकालम् ।
इस्लाम पार्सी सिख् बौद्धजनाश्चात्र
सोदरभावेन सन्तोषचित्ताः ॥ २॥
किमेषा घोषणा सर्वत्र देशे
किमेतच्चित्तं मे सोद्वेगपूर्णम् ।
निवसन्ति मम देशे ये ये बहुकालं
तैरेव नागरिकजनतात्र सत्यम् ॥ ३॥
कुरुत नहि सोदराः दुःखं हृदि नित्यं
मानसमनुपमसागरकल्पम् ।
नैवात्र भीतिः नैवात्र कोपो
नैवात्र मात्सर्यरोषाग्निबाधा ॥ ४॥
भवतु मे देशोयं मुदभरितं नित्यं
जनततिः सर्वथा सोदरकल्पा ।
नहि कलहो नहि द्वेषो भीषणाश्चत्र
सकलजनहृदयमिह शान्ततामेतु ॥ ५॥
--- विजयन् वि. पट्टाम्बि