नववर्षशुभगीतम्
जय जय मङ्गलवर्ष समागत
जय जय हर्षद कालरूपिन् ॥
नववर्ष संगम सुदिनसमागमे
हृदयप्रकर्षो मे ज्वलति तीव्रम् ।
नववर्षसंजात पल्लवजालेन
हृदयं हरतीव बालचूतः ॥
जय जय . .
मधुमत्तकोकिलैः सुमदलगन्धैश्च
जनुवरिमासोयं हृदयहारी ।
सुरभिलवायुना मृदुपुष्पकेलिभि-
रनुदिनं चित्तमपहरति ॥
जय जय . .
लसतां विलसतामानन्दसागरो
हृदयेषु मानवमन्दिरेषु ।
मधुरं च मङ्गलं तावक जीवन-
मनुदिनं वर्षेऽस्मिन् भवतु मित्र ॥
जय जय . .
हरतु वो दूरितान्यखिलानि सर्वेश
कृपया जगत्रयपालकस्य ।
भवतु जगदयं सुखदो निरामयो
नववर्षहर्षेषु मङ्गलेषु ॥
जय जय . .
-- विजयन् वि. पट्टाम्बि