नवयोजनासाफल्यम्
(द्रुतविलम्बितम्)
सुखद-सिद्धिकरं नवयोजनं
दिशतु भारत-भू-वलये सुखम् ।
अनुदिनं जनता जन-ताप-ह
स्वकृतिभिश्च समर्थनमेधयेत् ॥
इदमभेद्य-तमस्तति-नाशकं
दुरित-दुष्कृत-दैन्य-निवारकम् ।
सुकृत शान्ति-सुधारस-वर्षकं
जयतु सन्ततमेव नियोजनम् ॥
वसन-भोजन-पेय-समुच्चयो
भवन-भूति-निवास-सुखोच्चय ।
कृषि-समुन्नति-राष्ट्र-गुणोच्छ्रयो
वसतु भारत-भू-जनताऽऽलये ॥
नव-नवोद्यम-शक्ति-प्रदोद्यमोऽ-
नवरतं वसु वृद्धि-करः श्रमम् ।
सततमात्म हिताय श्रमाश्रयो
दिशति राम सुखौघ समेधितम् ॥
कृषिकृतौ नलकूप-समाश्रयं
प्रतिदिशं तनुते कृषि-वर्धनम् ।
हरितिमा हरते कृषकाऽऽवले
सकल-दुःखततिं सुख-साधने ॥
भवन-हीन-जनैर्भवनं कृतं
अवनि-हीन-नरैरवनि श्रिता ।
वसन-हीन-नृभिर्वसनं घृतं
कृषि-विहीन-नरैः कृषिभूर्वृता ॥
प्रतिविशं नगरेषु सुखोच्चय
प्रतिपदं सुषमा श्रमिणा गृहे ।
भवन भोजन-सौख्य समुच्छ्रयोः
वसन वास-मुखं तनुते हितम् ॥
नव-विधान-समाश्रयणेन यद्
हितमिदं विहितं हित काम्यया ।
ऋणज-बन्धन-ग्रस्त-जनावलिः
सुखद-मुक्तिमहो लभतेतराम् ॥
धनिवरा धन सङ्ग्रहमेव ये
हितधिया व्यदधुर्दुरितावहम् ।
सकलमेव तु तद्धन-सङ्ग्रहं
अपहृतं नृ-हिताय प्रशासकैः ॥
निखिल-ग्रामचयेऽद्य विराजते
विपुल विद्युदुपस्कर-सङ्ग्रह ।
कृषिज धान्यततिवसनावलिं
नव-विकासज-सौख्य-समुच्चय ॥
सुखविधा विविधा नगरेषु च
प्रतिपदं वितनोति सुखश्रियम् ।
सरणि-नीर-प्रकाश-गृहाश्रया
कतिविधा सुविधा नहि लम्भिता ॥
सततमद्य विलोक्यत एव यत्
प्रशमिता जन-ताप-करी कृतिः ।
बटुजने नगरे न पुरेऽपि च
क्वचिद-शान्ति-ततिस्तनुते पदम् ॥
बटुजने वितताऽभिरुचिर्गुणेः
श्रमचये रुचिरा हितधी श्रिता ।
जन हिताय समाज-सुखाय ते
श्रममवेक्ष्य हितं दधते शिवम् ॥
पठन पाठन-साधन सङ्ग्रहे
हितततिं तनुतेऽत्र प्रशासनम् ।
बटुजनस्य च शिक्षक-संहते
दिशति शासनमद्य सुखावलिम् ॥
गुणधि-गान्धि महात्मभिराश्रिता
भरत भू-विषये रुचिरा स्थितिः ।
सुखमहो स हि स्वप्न-समुच्चय
सफलतामिह याति सुखावह ॥
प्रतिदिनं यदुपैत्युपयोगिता ।
तदिह वस्तु नियन्त्रित-मूल्यकम् ।
न सहतेऽर्ध-विवृद्धिमथः क्वचिद्
अनय-वारण-दारुण शासनम् ॥
कृषक-कर्मणि ये नियतं रताः,
धरणिमापुरिमे कृपि-कर्मणे ।
वितरतीह प्रशासन-सूत्रकं
जलमलं विमलं प्रवरं-बीजम् ॥
लयमुपैति कुरीति-प्रथाऽखिला
प्रशममेति दिवं गमनं क्षुधा ।
सुखदमेत्यनुशासन-जालकं
उदयमेति च भारत-गौरवम् ॥
प्रतिदिशं परिवर्तनमीक्ष्यते
प्रतिगृहं धन धान्य-समुच्चय ।
प्रतिजनं जनता हित लालसा
प्रतिपलं प्रगति सुख-साधने ॥
वरद-योजन-कार्यमिदं मुदे
सुख-समुन्नति शान्ति-हितावहम् ।
जन-मनः सु दधद् नवचेतना
सकललोक-समर्थनमावहेत् ॥
Proofread by Mandar Mali