नव्यगीतम्
नववर्षीयविभातं जातम्
दृष्टं मे दिनदर्शनपत्रम् ।
उदयास्तमयौ स्वापविनोदौ
जातौ दैनिकरीत्या भुवने ॥
नववर्षामृतशुभवचनानि
निर्गलितानि शतशश्चात्र ।
चित्तान्यपि भुवि सर्वजनानां
दीप्तानि खलु नवसूर्यप्रभया ॥
अतिवित्तार्जनचिन्ता त्यज्या
साधूनां ते खलु सेवा कार्या ।
परिवारीयं सेवनकार्य
करणीयं खलु भवता सततम् ॥
बन्धुजनानथ मित्रजनांश्च
स्वजन समानान् कुरुत हृदिस्थान् ।
वचनान्यथ खलु क्षेमपराणि
वक्तव्यानि यथोचितरीत्या ॥
गृहिणी पुत्राःपरिपाल्या हि
तेनैवात्र तु जीवनमुक्तिः ।
कर्मपरात्र हि मनसा वाचा
करणीया भुवि मानवसेवा ॥
द्वेषानखिलान् मानसजन्यान्
त्यक्त्वा चित्तं विमलीकुर्याः ।
सर्वानपरान् चात्मसमानान्
मत्वा चित्ते कुरु कर्माणि ॥
स्नेहादेव हि जन्यो लोकः
स्नेहेनेवाभ्युदयो भूयात् ।
स्नेही लभते सर्वसुखानि
नववर्षामृतदिव्यपराणि ॥
--- विजयन् वि. पट्टाम्बी