नुमो वेदवाणीम्
पश्य देवस्य काव्यं यदास्तेऽमृतं
यज्जराबाधितं नो भवेज्जातुचित् ।
अस्य संज्ञास्ति वेदः सदा पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ १॥
अस्ति माता मदीया धरेयं तथै
वास्म्यहं तत्सुतस्तत्सपर्यापरः ।
घोषणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ २॥
राष्ट्रमास्तां सुपुष्टं समृद्धं सदा
त्यागभोगौ सखायौ भवेतां तथा ।
देशनेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ३॥
वारिवाहः सुकाले समागच्छतात्
सन्तुगावश्च पुष्टाः रामस्तास्तथा ।
मार्गणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ४॥
मा जलानां तरुणां च हिंसा कुरु
द्युतखेलां परित्यज्य कर्षं कुरु ।
मानवं या दिशन्ती श्रुतिं तां मुदा
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ५॥
``नैकधर्मास्तथानेकवाचो नरा
मातरं भूमिमेनां सदा रक्षत । ''
राष्ट्रियां वैश्विकीमेकतां तन्वतीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ६॥
-डाॅ रमाकान्त शुक्ल