श्रीन्यासदशकम्
॥ श्रीः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
अहं मद्रक्षण भरो मद्रक्षण फलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत्बुधः ॥ १॥
न्यस्याम्यकिञ्चनः श्रीमननुकूलोऽन्यवर्जितः ।
विश्वास प्रार्थना पूर्वमात्मरक्षा भरं त्वयि ॥ २॥
स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३॥
श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४॥
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येक प्रयोजनम् ।
निषिद्धकाम्यरहितं कुरू मां नित्य किङ्करम् ॥ ५॥
देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्श्व माम् ॥ ६॥
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरू स्वयम् ॥ ७॥
त्वदेक रक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९॥
श्रीमान्नियत पञ्चाङ्गं मद्रक्षण भरार्पणम् ।
अचीकरत्स्वयं स्वस्मिनतोऽहमिह निर्भरः ॥ १०॥
॥ इति श्रीन्यासदशकं समाप्तम् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
Encoded and proofread by Vikram Iyer vikram85.iyer at gmail.com